शस्त्रम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शस्त्रम्, क्ली, (शस्यते हिंस्यते अनेन । “अमिचि- मिदिशसिभ्यः क्त्रः ।” उणा० ४ । १६३ । इति क्त्रः । यद्बा, “दाम्नीशसुयुयुजेति ।” ३ । २ । १८२ । इति ष्ट्रन् ।) लोहम् । अस्त्रम् । इत्यमरः ॥ शस्त्रास्त्रैर्बहुधा मुक्तैरित्यादिदर्शनात् शस्त्रा- स्त्रयोः कश्चिद्भेदमाह । येन करधृतेन हन्यते तत् शस्त्रं खड्गादि । येन क्षिप्तेन हन्यते तदस्त्रं काण्डादि । इति तट्टीकायां भरतः ॥ तत्पर्य्यायः । “अस्त्रे शस्त्रं प्रहरणमुद्घातो हेतिरायुधः ।” इति शब्दरत्नावली ॥ “एकैकमस्त्रं शस्त्रञ्च देवैर्मुक्तं सहस्रधा । चिच्छेद लीलयैवेशो जगतां मधुसूदनः ॥” इति विष्णुपुराणे ५ अंशे ३० अध्यायः ॥ अस्त्रं मन्त्राभिमन्त्रितम् । शस्त्रं तदितरत् । इति तट्टीका ॥ * ॥ राज्ञां अस्त्राचार्य्यो यथा, -- “यन्त्रयुक्ते पाणियुक्ते अयुक्ते युक्तधारिते । अस्त्राचार्य्यो निरुद्बेगः कुशलश्च विशिष्यते ॥” तदगारनियुक्तस्य लक्षणं यथा, -- “स्थापनाजातितत्त्वज्ञः सततं प्रतिजागृता । राज्ञः स्यादायुधागारे दक्षः कर्म्मसु चोद्यतः ॥” इति मात्स्ये १८९ अध्यायः ॥ अस्त्रचिकित्सा यथा । अथातोऽग्रोपहरणीय- मध्यायं व्याख्यास्यामः । त्रिविधं कर्म्म । पूर्ब्ब- कर्म्म प्रधानकर्म्म पश्चात्कर्म्मेति । तद्व्याधि प्रत्युपदेक्ष्यामः । अस्मिन् शास्त्रे शस्त्र कर्म्म पान्तु त्वां मुनयो ब्राह्म्या दिव्या राजर्षयस्तथा । पर्व्वताश्चैव नद्यश्च सर्व्वाः सर्व्वेऽपि सागराः ॥ अग्नी रक्षतु ते जिह्वां प्राणान् वायुस्तथैव च ॥ सोमो व्यानमपानं ते पर्य्यण्यः परिरक्षतु ॥ उदानं विद्युतः पान्तु समान स्तनयित्नवः । बलमिन्द्रो बलपतिर्मनुर्मन्ये मतिं तथा ॥ कामांस्ते पान्तु गन्धर्व्वाः सत्त्वमिन्द्रोऽभिरक्षतु । प्रज्ञां ते वरुणो राजा समुद्रो नाभिमण्डलम् ॥ चक्षुः सूर्य्यो दिशः श्रोत्रे चन्द्रमाः पातु ते मनः । नक्षत्राणि सदा रूपं छायां पान्तु निशास्तव ॥ रेतस्त्वाप्याययन्त्वापो रोमाण्योषधयस्तथा । आकाशं स्वानि ते पातु देहं तव वसुन्धरा ॥ वैश्वानरः शिरः पातु विष्णुस्तव पराक्रमम् । पौरुषं पुरुषश्रेष्ठो ब्रह्मात्मानं ध्रुवो भ्रुवौ ॥ एता देहे विशेषेण तव नित्या हि देवताः । एतास्त्वां सततं पान्तु दीर्घमायुरवाप्नुहि ॥ स्वस्ति ते भगवान् ब्रह्मा स्वस्ति देवाश्च कुर्व्व- ताम् । स्वस्ति ते चन्द्रसूर्य्यौ च स्वस्ति नारदपर्व्वतौ ॥ स्वस्त्यग्निश्चैव वायुश्च स्वस्ति देवाः सहेन्द्रगाः । पितामहकृता रक्षा स्वस्त्यायुर्व्वर्द्धतां तव । ईतयस्ते प्रशाम्यन्तु सदा भव गतव्यथः ॥” इति स्वाहा ॥ “एतैर्व्वेदात्मकैर्मन्त्रैः कृत्या व्याधिविनाशनैः । मयैवं कृतरक्षस्त्वं दीर्घमायुरवाप्नुहि ॥” * ॥ ततः कृतरक्षमातुरमागारं प्रवेश्याचारिक- मादिशेत् । ततस्तृतीयेऽहनि विमुच्यैवं बध्नी- याद्बस्त्रपट्टेन । न चैनं त्वरमाणोऽपरेद्युर्मोक्ष- येत् । द्बितीयदिवसे परिमोक्षणाद्विग्रथितो व्रणश्चिरादुपसंरोहति तीव्ररुजश्च भवति । अत ऊर्द्ध्वं दोषकालबलादीनवेक्ष्य कषायालेपनबन्धा- हाराचारान् विदध्यात् । न चैनं त्वरमाणः सान्तर्दोषं रोपयेत् स ह्यल्पेनाप्यपचारेणाभ्य- न्तरमुत्सङ्गं कृत्वा भूयोऽपि विकरोति । भवन्ति चात्र । “तस्मादन्तर्व्वहिश्चैव सुशुद्धं रोपयेद्व्रणम् । रूढेऽप्यजीर्णव्यायामव्यवायादीन् विवर्जयेत् ॥ हर्षं क्रोधं भयञ्चापि यावदास्थैर्य्यसम्भवात् । मासान् षट् सप्त वा नॄणां विधिरेषः प्रशस्यते ॥ हेमन्ते शिशिरे चैव वसन्ते चापि मोक्षयेत् । त्र्यहात् द्ब्यहाच्छरद्ग्रीष्मवर्षास्वपि च बुद्धि- मान् ॥ अतिपातेषु रोगेषु नेच्छेद्विधिमिमं भिषक् । प्रदीप्तागारवच्छिघ्रं तत्र कुर्य्यात् प्रतिक्रियाम् ॥ या वेदना शस्त्रनिपातजाता तीव्रा शरीरं प्रदुनोति जन्तोः । घृतेन सा शान्तिमुपैति सिक्ता कोष्णेन यष्टीमधुकान्वितेन ॥” इति सुश्रुते ५ अध्यायः ॥
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शस्त्रम् [śastram], [शस्-ष्ट्रन्]
A weapon, arms; क्षमाशस्त्रं करे यस्य दुर्जनः किं करिष्यति Subhāṣ; R.2.4;3.51,52;5.28.
An instrument, a tool in general.
Iron; गृहीतशस्त्राः क्रोशन्ति चर्मिणो वाजिपृष्ठगाः Mb.6.2.29.
Steel.
A hymn of praise (स्तोत्र).
Repetition, recitation. -Comp. -अङ्गा a kind of sorrel. -अभ्यासः the practice of arms, military exercise.
अयसम् steel.
iron.-अवपातः injury by weapon; शस्त्रावपाते गर्भस्य पातने चोत्तमो दमः Y.2.277.
अस्त्रम् weapons for striking and throwing, arms and missiles; शस्त्रास्त्रभृत्त्वं क्षत्रस्य Ms.1.79.
arms or weapons generally. -आख्यम् iron. -आजीवः, -उपजीविन् m. a professional soldier; Kau. A.1.3.-उद्यमः lifting up a weapon (to strike). -उपकरणम् arms or instruments of war, military apparatus. -कर्मन् any surgical operation. -कारः an armourer. -कोपः war, battle. -ककोषः the sheath or scabbard of any weapon. -क्षारः borax. -ग्रहः battle, fight. -ग्राहिन् a. taking up or wearing arms (for battle); शस्त्रग्राही ब्राह्मणो जामदग्न्यः U.5.33. -चिकित्सा surgery. -जीविन्, -वृत्ति m. one living by the use of arms, a professional soldier. -देवता the deity presiding over weapons.-धरः = शस्त्रभृत् q. v. -निपातनम् a surgical operation.-न्यासः laying down arms; so शस्त्र (परि) त्यागः. -पाणिa. bearing arms, armed. (-m.) an armed warrior.-पदम् incision; Suśr. -पूत a. 'purified by arms', rendered pure or absolved from guilt by being killed with a weapon on the battle-field; अशस्त्रपूतं निर्व्याजम् (महामांसम्) Māl.5.12; (see Jagaddhara's explanation of the word); अहमपि तस्य मिथ्याप्रतिज्ञावैलक्ष्यसंपादितमशस्त्रपूतं मरणमुपदशामि Ve.2. -प्रहारः a wound inflicted with a weapon. -भृत् m.
a soldier, warrior; रामः शस्त्रभृतामहम् Bg.1.31; न तद् यशः शस्त्रभृतां क्षिणोति R.2.4.
an armed man. -मार्जः a weapon-cleaner, an armourer, a furbisher. -विद्या, -शास्त्रम् the science of archery, see धनुर्वेद. -वृत्तिः a professional soldier; पुरुषा शस्त्रवृत्तयः Ms. 12.45. -व्यवहारः practice of weapons. -शास्त्रम् military science. -संहतिः f.
a collection of arms.
an arsenal. -संपातः a sudden fall of a number of weapons. -हत a. killed by a weapon. ˚चतुर्दशी N. of a particular 14th day sacred to the memory of fallen warriors. -हस्त a. armed. (-स्तः) an armed man.
