सामग्री पर जाएँ

शस्त्रहतः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शस्त्रहतः, त्रि, (शस्त्रेण हतः ।) शस्त्राघातेन मृतः । तस्याशौचादि यथा । व्याघ्रः । “क्षतेन म्रियते यस्तु तस्याशौचं भवेद्द्विधा । आसप्ताहात् त्रिरात्रं स्यात् दशरात्रमतःपरम् ॥ शस्त्राघाते त्र्यहादूर्द्ध्वं यदि कश्चित् प्रमीयते । अशौचं प्राकृतं तत्र सर्व्ववर्णेषु नित्यशः ॥” अत्र शस्त्रघातपदं क्षतेतरशस्त्रघातपरं पारि- भाषिकशस्त्रघातपरमपि । यथा, देवीपुराणे । “पक्षिमत्स्यमृगैर्ये तु दंष्ट्रिशृङ्गिनखैर्हताः । पतनानशनप्रायैर्व्वज्राग्निविषवन्धनैः । मृता जलप्रवेशेन ते वै शस्त्रहताः स्मृताः ॥” अन्यथा क्षतं विना पतनादिभिर्विलम्बमृतानां दिनग्रहणे अनध्यवसायः स्यात् । न च शास्त्रीय- व्यवहारेऽन्तरङ्गत्वेन पारिभाषिकस्यैव युक्तत्व- मिति वाच्यं श्राद्धे पारिभाषिकापारिभाषिक- शस्त्रघातग्रहणवदत्रापि तथायुक्तत्वात् पारि- भाषिकत्वादेव न प्रकरणनियमः ॥ * ॥ “क्रोधात् प्रायं विषं वह्निं शस्त्रमुद्बन्धनं जलम् । गिरिवृक्षप्रपातञ्च ये कुर्व्वन्ति नराधमाः ॥ महापातकिनो ये च पतितास्ते प्रकीर्त्तिताः । पतितानां न दाहः स्यान्नान्त्येष्टिर्नास्थिसञ्चयः ॥ न चाश्रुपातः पिण्डो वा कार्य्यं श्राद्धादिकं क्वचित् । एतानि पतितानाञ्च यः करोति विमोहितः । तप्तकृच्छ्रद्वयेनैव तस्य शुद्धिर्न चान्यथा ॥” * ॥ तदितरत्र मरीचिः । “विषशस्त्रश्वापदाहितिर्य्यग्ब्राह्मणघातिनाम् । चतुर्द्दश्यां क्रिया कार्य्या अन्येषान्तु विगर्हिता ॥” इति शुद्धितत्त्वम् ॥

"https://sa.wiktionary.org/w/index.php?title=शस्त्रहतः&oldid=170255" इत्यस्माद् प्रतिप्राप्तम्