शस्त्रहतचतुर्द्दशी
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शस्त्रहतचतुर्द्दशी, स्त्री, (शस्त्रहतानां चतुर्द्दशी । युद्धादिहतानां श्राद्धादिकर्म्मणि प्रशस्ततया- स्यास्तथात्वम् ।) गौणाश्विनकृष्णचतुर्द्दशी । गौणकार्त्तिककृष्णचतुर्द्दशी च । यथा, लिङ्ग- पुराणम् । “दीपमालां तथा कृष्णचतुर्द्दश्यां शिवाग्रतः । चतुष्पथे च नद्याञ्च चत्वरेषु गृहेषु च । एकविंशकुलोपेतो वसेच्छिवपुरे नरः ॥” अत्र शस्त्रहतानामुल्कादानं अन्येषान्तु दर्शे । इति संवत्सरकौमुदी ॥ * ॥ अन्यच्च । अथ शस्त्रहतचतुर्द्दशी तत्र विष्णुः । युद्धहतानां श्राद्धकर्म्मणि चतुर्द्दशी प्रशस्ता । युद्धहताना- मेवेति न नियमार्थमिदम् । ब्रह्मपुराणे । “प्रायोऽनशनशस्त्राग्निविषाद्युद्बन्धिनान्तथा । चतुर्द्दश्यान्तु कर्त्तव्यं तृप्त्यर्थमिति निश्चयः ॥” प्रायो महापथगमनम् । वायुपुराणे । “युवानस्तु गृहे यस्य मृषास्तेषान्तु दापयेत् । शस्त्रेण तु हता ये वै तेषां दद्याच्चतुर्द्दशीम् ॥” युवान एव पित्रादयो मृता इत्यर्थः । मरीचिः । “विषशस्त्रश्वापदाहितिर्य्यग्ब्राह्मणघातिनाम् । चतुर्द्दश्यां क्रिया कार्य्या अन्येषान्तु विगर्हिता ॥” ब्राह्मणकृतघातोऽस्यास्तीति ब्राह्मणघाती ये च वै ब्राह्मणैर्हता इति ब्रह्मपुराणवचनात् । न तु कृतब्राह्मणघातः तस्य पतितत्वात् अन्येषाम- शस्त्रादिहतानाम् । एतच्च शस्त्रहतश्राद्धं विष्ण्वादिभिः सामान्यप्रकरणलिखनात् सकल- कृष्णपक्षसाधारणं पित्रादीनामेव पार्व्वणविधि- प्रकरणात् पार्व्वणविधिना कार्य्यम् । “सपिण्डीकरणादूर्द्ध्वं यत्र यत्र प्रदीयते । तत्र तत्र त्रयं कुर्य्याद्बर्ज्जयित्वा मृताहनि ॥” इति शङ्खवचनाच्च ॥ * ॥ ननु अन्येषान्तु विगहिता इति श्रवणात् । कथं त्रैपुरुषिकपार्व्वणविधिः । न यस्य पुरुषास्त्रय एव शस्त्रहतास्तस्य त्रैपुरुषिकविधिरुपपद्यते । एवं यस्य द्वौ शस्त्रहतावेको वा तेनापि द्वैपुरु- षिकैकपुरुषिकं पार्व्वणं कर्त्तव्यम् । यथा, मनुः । “पिता यस्य तु वृत्तः स्यात् जीवेच्चापि पिता- महः । पितुः सनामसङ्कीर्त्त्य कीर्त्तयेत् प्रपितामहम् ॥” “वृद्धः शौचस्मृतेर्लुप्तः प्रत्याख्यातभिषक्क्रियः । आत्मानं घातयेद्यस्तु भृग्वग्न्यनशनादिभिः ॥ अस्य त्रिरात्रमशौचं द्बितीये त्वस्थिसञ्चयः । तृतोये तूदकं कृत्वा चतुर्थ श्राद्धमिष्यते ॥” एवं क्रीडाव्यतिरेकेणाबुद्धिपूर्व्वं मृताः शास्त्रानु- मत्या बुद्धिपूर्व्वकमृता अपि श्राद्धार्हाः कथं लुप्तपिण्डोदकत्वमिति चेत् गौणमिति ब्रूमः । बुद्धिपूर्व्वे पिण्डोदकक्रियालोपादिति । इति श्राद्धविवेकः ॥
