शाकम्
संस्कृतम्
[सम्पाद्यताम्]
- साकं, शाकाख्यं, पर्णसि।
नाम
[सम्पाद्यताम्]- शाकं नाम शाकाहारः।
लिङ्ग्म्-
[सम्पाद्यताम्]| एकवचनम् | द्विवचनम् | बहुवचनम् | |
|---|---|---|---|
| प्रथमा विभक्तिः | शाकम् | शाके | शाकानि |
| सम्बोधनप्रथमा | शाक | शाके | शाकानि |
| द्वितीया विभक्तिः | शाकम् | शाके | शाकानि |
| तृतीया विभक्तिः | शाकेन | शाकाभ्याम् | शाकैः |
| चतुर्थी विभक्तिः | शाकाय | शाकाभ्याम् | शाकेभ्यः |
| पञ्चमी विभक्तिः | शाकात् | शाकाभ्याम् | शाकेभ्यः |
| षष्ठी विभक्तिः | शाकस्य | शाकयोः | शाकानाम् |
| सप्तमी विभक्तिः | शाके | शाकयोः | शाकेषु |
अनुवादाः
[सम्पाद्यताम्]उदाहरणानि
[सम्पाद्यताम्]- अहं आपणं गत्वा शाकं स्वीकरोमि।
- कारवेल्लं, शिघ्रुः, कूष्माण्डं, बिम्बफलं, पुष्पशाकं, पर्णशाकं, आमलकं, गोराणी इत्यादि।
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शाकम्, क्ली, पुं, (शक्यते भोक्तुमिति । शक + घञ् ।) पत्रपुष्पादि । साग इति हिन्दीभाषा । तत्- पर्य्यायः । हरितकम् २ शिग्रुः ३ । इत्यमरः ॥ सिग्रुः ४ । इति तट्टीका ॥ हारितकम् ५ । इति शब्दरत्नावली ॥ अथ शाकवर्गः । तत्र शाक- निरूपणम् । “पत्रं पुष्पं फलं नालं कन्दं संस्वेदजं तथा । शाकं षड्विधमुद्दिष्टं गुरु विद्यात् यथोत्तरम् ॥” अथ शाकानां गुणाः । “प्रायः शाकानि सर्व्वाणि विष्टम्भीनि गुरूणि च । रूक्षाणि बहुवर्च्चांसि सृष्टविण्मारुतानि च ॥ शाकं भिनत्ति वपुरस्थि निहन्ति नेत्रं वर्णं विनाशयति रक्तमथापि शुक्रम् । प्रज्ञाक्षयञ्च कुरुते पलितञ्च नूनं हन्ति स्मृतिं गतिमिति प्रवदन्ति तज्ज्ञाः ॥ शाकेषु सर्व्वे निवसन्ति रोगाः सहेतवो देहविनाशनाय । तस्माद्बुधः शाकविवर्जनञ्च कुर्य्यात्तथाम्लेषु स एव दोषः ॥” इति भावप्रकाशः ॥ अपि च । “सर्व्वशाकमचाक्षुष्यमलङ्घेयममैथुनम् । ऋते पटोलवास्तूककाकमाचीपुनर्नवाः ॥” इति राजवल्लभः ॥
