शाकम्भरीयम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शाकम्भरीयम्, क्ली, आजमेराख्यदेशान्तर्गतशाम्भर- नगरीयजलाशयविशेषोद्भवलवणम् । शाम्भरि इति ख्यातम् । तत्पर्य्यायगुणा यथा, -- “शाकम्भरीयं कथितं गडाख्यं रोमकं तथा । गडाख्यं लघु वातघ्नमत्युष्णं भेदि पित्तलम् । तीक्ष्णं व्यवायि सूक्ष्मञ्चाभिष्यन्दि कटुपाकि च ॥” इति भावप्रकाशः ॥
