सामग्री पर जाएँ

शाकाख्यम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शाकाख्यम्, क्ली, (शाक इति आख्या यस्य ।) पत्रपुष्पादि । इत्यमरः ॥ “व्यञ्जनयोग्यं पत्रपुष्पादि शाकपदवाच्यम् । आदिना फलमूलादिग्रहः । यदुक्तम् । ‘मूलपत्रकरीराग्रफलकाण्डाधिरूढकम् । त्वक् पुष्पं करकञ्चैव शाकं दशविधं स्मृतम् ॥’ तत्र मूलं मूलकादेः । पत्रं पटोलादेः । करीरं वंशाङ्कुरादि । अग्रं वेत्रादेः । फलं कुष्माण्डादेः । काण्डं उत्पलादिनाडी । अधिरूढं तालास्थि- मज्जा । अधिरूढोऽङ्कुर इति केचित् । त्वक् मातुलुङ्गादेः । पुष्पं कोविदारादेः । करकं छत्रिका । शक्यते भोक्तुमनेनेति शाकम् । श्यति सामर्थ्यं तनूकरोति शो तनूकरणे बाहुल्यात् कः शाकमित्यन्ये ।” इति तट्टीकायां भरतः ॥

"https://sa.wiktionary.org/w/index.php?title=शाकाख्यम्&oldid=170336" इत्यस्माद् प्रतिप्राप्तम्