सामग्री पर जाएँ

शाकुनः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शाकुनः, पुं, (शकुनमधिकृत्य कृतो ग्रन्थः । शकुन + अण् ।) पशुपक्ष्यादिरूपशकुनद्वारा मनुष्य- शुभाशुभनिश्चायकग्रन्थः । तस्येमौ श्लोकौ । “शुभाशुभज्ञानविनिर्णयाय हेतुर्नृणां यः शकुनः स उक्तः । गतिः स्वरालोकनभावचेष्टां संकीर्त्तयामो द्बिपदादिकानाम् ॥ लोकोऽमुना शाकुनसंज्ञकेन ज्ञानेन विज्ञातसमस्तकार्य्यः । नापायकूपे पतति प्रसर्पन् शास्त्रं हि दिव्या दृगतीन्द्रियेषु ॥” इति वसन्तराजशाकुने १ सर्गः ॥ (शकुनस्यायमिति । शकुन + “तस्येदम् ।” ४ । ३ । १२० । इति अण् । पक्षिसम्बन्धी । यथा, मनुः । ३ । २६८ । “द्वौ मासौ मत्स्यमांसेन त्रीन्मासान् हारिणेन तु । औरभ्रेणाथ चतुरः शाकुनेनाथ पञ्च वै ॥”)

"https://sa.wiktionary.org/w/index.php?title=शाकुनः&oldid=170351" इत्यस्माद् प्रतिप्राप्तम्