सामग्री पर जाएँ

शाखानगरम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शाखानगरम्, क्ली, (शाखेव नगरम् ।) मूलनग- रादन्यत् पुरम् । इत्यमरः ॥ (यथा, महा- भारते । १२ । ८७ । ८ । “शाखानगरमर्हस्तु सहस्रपतिरुत्तमः ॥”) मूलनगरेऽसम्मितस्य जनौघस्य स्थानाय मूल- नगरस्य समीपेऽङ्के वा यदन्यत् पुरं नगरान्तरं क्रियते तत् शाखानगरं मूलनगरस्य तरुस्थानी- यस्य शाखेव । अभिष्यन्दि रमणमप्यत्र । स्यादभिष्यन्दि रमणं शाखानगरमित्यपि । इति त्रिकाण्डशेषः । इति तट्टीकायां भरतः ॥ अपि च । यथा, शब्दरत्नावल्याम् । “आरभ्य मूलनगरादपरं नगरं हि यत् । तदभिष्यन्दि रमणं शाखानगरमित्यपि ॥”

"https://sa.wiktionary.org/w/index.php?title=शाखानगरम्&oldid=170380" इत्यस्माद् प्रतिप्राप्तम्