शाखोटः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शाखोटः, पुं, वृक्षविशेषः । श्याओडा इति भाषा ॥ तत्पर्य्यायः । पिशाचद्रुः २ पीत- फलः ३ कर्कशच्छदः ४ । इति त्रिकाण्डशेषः ॥ भूतवृक्षः ५ सकटः ६ अक्षधरः ७ । ति भूरिप्रयोगः ॥ गवाक्षी ८ घूकावासः ९ रूक्ष- पत्रः १० पीतः ११ कैशिक्योजः १२ क्षीर- नाशनः १३ । अस्य गुणाः । तिक्तत्वम् । उष्णत्वम् । पित्तकारित्वम् । वातहारित्वञ्च । इति राजनिर्घण्टः ॥ अपि च । “शाखोटः पीतफलको भूतावासः खरच्छदः । शाखोटो रक्तपित्तार्शोवातश्लेष्मातिसारजित् ॥” इति भावप्रकाशः ॥
