सामग्री पर जाएँ

शाट्यायनम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शाट्यायनम्, क्ली, प्रकृतकर्म्मवैगुण्यप्रशमनाथहोमः । यथा । यत्तु प्रकृतकर्म्मवैगुण्यप्रशमनाय शाट्या- यनहोमाभिधानं भवदेवभट्टसम्मतं तन्न प्रामा- णिकं तस्मादपि महाप्रामाणिकैर्भट्टनारायण- चरणैर्गोभिलभाष्ये तदप्रमाणीकृतत्वात् । छन्दोगपरिशिष्टेऽपि प्रायश्चित्तार्थं प्रकारत्रय- मात्रमुक्तम् । यथा, -- “यत्र व्याहृतिभिर्होमः प्रायश्चित्तात्मको भवेत् । चतस्रस्तत्र विज्ञेया स्त्रीपाणिग्रहणे यथा ॥ अपि वाज्ञातमित्येषा प्राजापत्यापि बाहुतिः । होतव्या त्रिर्व्विकल्पोऽयं प्रायश्चित्तविधिः स्मृतः ॥” त्रिर्व्विकल्प इत्यनेन कल्पान्तरनिषेधात् गोभि- लीयकर्म्मणि शाट्यायनहोमो न युक्तः । किन्तु व्यस्तसमस्तमहाव्याहृतिभिश्चतसृभिः प्राय- श्चित्तहोमो युक्तः । विशारदप्रभृतयोऽप्येवम् । शाट्यायनहोमस्य समूलत्वेऽपि शाख्यन्तरीय- त्वम् । इति तिथ्यादितत्त्वम् ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शाट्यायनम् [śāṭyāyanam], An oblation for remedying anything wrong in the performance of a rite. -नः N. of a teacher and author of various works.

"https://sa.wiktionary.org/w/index.php?title=शाट्यायनम्&oldid=321627" इत्यस्माद् प्रतिप्राप्तम्