सामग्री पर जाएँ

शाठ्यम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शाठ्यम्, क्ली, (शठस्य भावः । शठ + ष्यञ् ।) शठता । (यथा । “शठे शाठ्यं समाचरेत् ॥”) तत्पर्य्यायः । कपटः २ व्याजः ३ दम्भः ४ उपधिः ५ छद्म ६ कैतवम् ७ कुसृतिः ८ निकृतिः ९ । इत्यमरः ॥ नव अयथार्थ- व्यवहारे । शठ वधे क्लेशकैतवे तालव्यादिः अल् तस्य कर्म्म शाठ्यं ष्ण्यः । कपटादि- षट्कं छद्मनि कुसृत्यादित्रयं चित्तकौटिल्ये इत्येके । कपटादिषट्कं वञ्चनमात्रफलम् । कुसृत्यादित्रिकन्तु हिंसाफलमिति भेदः । इति सर्व्वानन्दो मधुश्च । नवैवैकार्था इति वहवः । इति भरतः ॥ अपि च । “अस्त्रियां कपटो व्याज उपधिर्दम्भ एव च । कूटं कल्कं छलं छद्म मिषकैरवकैतवम् ॥ अथ शाठ्यञ्च शठता कुसृतिर्निकृतिश्च सा । हिंसाफले चतुष्कं स्यात् शाठ्यपर्य्याय ईरितः ॥ पूर्व्वः कपटपर्य्यायः फले वञ्चनमात्रके । उभयोरेकपर्य्याय इति केचित् प्रचक्षते ॥” इति शब्दरत्नावली ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शाठ्यम् [śāṭhyam], [शठस्य भावः ष्यञ्] (a) Dishonesty, perfidy, guile; trickery, fraud, villainy; आजन्मनः शाठ्यमशिक्षितो यः Ś.5.25; दाक्षिण्यं स्वजने दया परजने शाठ्यं सदा दुर्जने Bh.2.22. (b) Art, skill, cunning; देव्या निह्नोतुमिच्छोरिति सुरसरितं शाठ्यमव्याद्विभोर्वः Mu.1.1.

"https://sa.wiktionary.org/w/index.php?title=शाठ्यम्&oldid=321699" इत्यस्माद् प्रतिप्राप्तम्