सामग्री पर जाएँ

शाणः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शाणः, पुं, (शण्यते ज्ञायते गुणादिरत्रेति । शण + घञ् ।) कषपट्टिका । कष्टिपातर इति भाषा । तत्पर्य्यायः । निकषः ३ कषः ३ । इत्य- मरः ॥ शानः ४ निकसः ५ कसः ६ । इति भरतः ॥ आकषः ७ । इति शब्दरत्नावली ॥ माषचतुष्टयम् । चारि माषा इति भाषा । तत्पर्य्यायः । निष्कः २ टङ्कः ३ । इति वैद्यक- परिभाषा ॥ यथा, -- “माषैश्चतुर्भिः शाणः स्यात् वरणः स निगद्यते । टङ्कः स एव कथितस्तद्द्बयं कोल उच्यते ॥” इति भावप्रकाशः ॥ लौहादीनां निकषः । शानपातर इति भाषा । इति मेदिनी ॥ करपत्रम् । करात् इति भाषा । इति विश्वः ॥

"https://sa.wiktionary.org/w/index.php?title=शाणः&oldid=170427" इत्यस्माद् प्रतिप्राप्तम्