शात्रवम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शात्रवम्, क्ली, (शात्रोर्भावः समूहो वा । शत्रु + अण् ।) शत्रुभावः । शत्रुसंहतिः । इति मेदिनी ॥ (शत्रुसम्बन्धिनि, त्रि । यथा, रघुः । ४ । ४२ । “ताम्बूलीनां दलैस्तत्र रचितापानभूमयः । नारिकेलासवं योधाः शात्रवञ्च पपुर्यशः ॥”)
