शाद्वलः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शाद्वलः, त्रि, (शाद + “नडशादात् ड्वलच् ।” ४ । २ । ८८ । इति ड्वलच् ।) नवतृणबहुलदेशः । इत्यमरः ॥ शादो नवतृणं विद्यतेऽत्र शाद्बलः । शष्पवाचिन एव शादशब्दाद्वलः स्यात् न तु पङ्कयाचिनोऽनभिधानात् । इति तट्टीकायां भरतः ॥ (यथा, रामायणे । २ । ३० । १४ । “शाद्वलेषु यदा शिष्ये वनान्ते वनगोचरा । कुथास्तरणयुक्तेषु किं स्यात् सुखतरं ततः ॥”)
