सामग्री पर जाएँ

शान्तः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शान्तः, त्रि, (शम + क्तः । “वा दान्तशान्तेति ।” ७ । २ । २७ । इति निपातितः ।) उपशमं प्रापितः । प्राप्तोपशमः । इति भरतः ॥ तत्- पर्य्यायः । शमितः २ । इत्यमरः ॥ श्रान्तः ३ जितेन्द्रियः ४ । इति हेमचन्द्रः ॥ शमान्वितः ५ । इति मेदिनी ॥

शान्तः, पुं, अभियुक्तः । रसभेदः । इति मेदिनी ॥ शान्तरसस्य लक्षणादि यथा, -- “शान्तः शमः स्थायिभाव उत्तमप्रकृतिर्मतः । कुन्देन्दुसुन्दरच्छायः श्रीनारायणदैवतः ॥ अनित्यत्वादिनाशेषवस्तुनिःसारता तु या । परमाथस्वरूपं वा तस्यालम्बनमिष्यते ॥ पुण्याश्रमहरिक्षेत्रतीर्थरम्यवनादयः । महापुरुषसङ्गाद्यास्तस्योद्दीपनरूपिणः ॥ रोमाञ्चाद्याश्चानुभावास्तथा स्युर्व्यभिचारिणः । निर्व्वेदहर्षस्मरणमतिभूतदयादयः ॥” यथा, -- “रथ्यान्तश्चरतस्तथा धृतजरत्कन्था नवस्या- ध्वगैः सत्रासञ्च सकौतुकञ्च सदयं दृष्टस्य तैर्नागरैः । निर्व्वीजीकृतचित्सुधारसमुदा निद्रायमाणस्य मे निःशङ्कं करटः कदा करपुटी भिक्षां विलुण्ठि- ष्यति ॥” पुष्ठिस्तु महाभारतादौ द्रष्टव्या । “निरहङ्काररूपत्वात् दयावीरादिरेष नो ।” दयावीरादौ हि जीमूतवाहनादौ अन्तरा मलयवत्याद्यनुरागादेरन्ते च विद्याधरचक्रवर्त्ति- त्वाद्याप्तेर्दर्शनादहङ्कारोपशमो न दृश्यते । शान्तस्तु सर्व्वप्रकारेणाहङ्कारप्रशमैकरूपत्वान्न तत्रान्तर्भावमर्हति । अतश्च नागानन्दे शान्त- रसप्रधानत्वमपास्तम् । ननु । “न यत्र दुःखं न सुखं न चिन्ता न द्वेषरागौ न च काचिदिच्छा । रसः स शान्तः कथितो मुनीन्द्रैः सर्व्वेषु भावेषु समप्रभाणः ॥” इत्येवंरूपस्य शान्तस्य मोक्षावस्थायामेवात्म- स्वरूपापत्तिलक्षणायां प्रादुर्भावात् । तत्र सञ्चार्य्यादीनामभावात् कथं रसत्वमित्युच्यते युक्तवियुक्तदशायामवस्थितो यः शमः स एव यतः रसतामेति तदस्मिन् सञ्चार्य्यादेः स्थितिश्च न विरुद्धा । यश्चास्मिन् सुखाभावोऽप्युक्तस्तस्य वैषयिकसुखपरत्वान्न विरोधः । उक्तं हि । “यच्च कामसुखं लोके यच्च दिव्यं महासुखम् । तृष्णाक्षयसुखस्यैते नार्हतः षोडशीं कलाम् ॥ सर्व्वाकारमहङ्काररहितत्वं व्रजन्ति चेत् । अत्रान्तर्भावमर्हन्ति दयावीरादयस्तदा ॥” आदिशब्दात् धर्म्मवीरदानवीरदेवताविषय- रतिप्रभृतयः । तत्र देवताविषया रतिर्यथा, -- “कदा वाराणस्यामिह सुरधुनीरोधसि वसन् वसानः कौपीनं शिरसि निदधानोऽञ्जलिपुटम् । अये गौरीनाथ त्रिपुरहर शम्भो त्रिनयन प्रसीदेति क्रोशन्निमिषमिव नेष्यामि दिवसान् ॥” इति साहित्यदर्पणे ३ परिच्छेदः ॥

"https://sa.wiktionary.org/w/index.php?title=शान्तः&oldid=170469" इत्यस्माद् प्रतिप्राप्तम्