शान्तनुः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शान्तनुः, पुं, द्बापरयुगस्य चन्द्रवंशीयैकविंश- राजः । स तु गङ्गायां भीष्मं जनयामास । तस्य पिता प्रतीपः । यथा, -- “जयसेनस्तत्तनयो राधिकोऽतोऽयुताय्वभूत् । ततश्चाक्रोधनस्तस्मात् देवातिथिरमुष्य च ॥ ऋक्षस्तस्य दिलीपोऽभूत् प्रतीपस्तस्य चात्मजः । देवापिः शान्तनुस्तस्य वाह्लीक इति चात्मजाः ॥ यं यं कराभ्यं स्पृशति जीर्णं यौवनमेष्यति । शान्तिमाप्नोति चैवाग्र्यां कर्म्मणा तेन शान्तनुः ॥ वाह्लीकात् सोमदत्तोऽभूत् भूरिर्भूरिश्रवास्ततः । शलश्च शान्तनोरासीत् गङ्गायां भीष्म आत्म- वान् ॥” इति श्रीभागवते ९ स्कन्धे २२ अध्यायः ॥ तत्पर्य्यायः । महाभीष्मः २ । इति जटाधरः ॥ प्रातीपः ३ । इति त्रिकाण्डशेषः ॥ प्रतीपः ४ प्रतिपः ५ । इति शब्दरत्नावली ॥ (शन्तनु- रिति पाठस्तु बहुभिरादृतः ॥) कर्कटी । इति रत्नमाला ॥
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शान्तनुः [śāntanuḥ], = शन्तनुः q. v.; शान्तनोः संतति तन्वन् पुण्यकीर्तिर्महा- यशाः Mb.1.6.6.
