शान्तिगृहम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शान्तिगृहम्, क्ली, (शान्तेर्गृहम् ।) शान्त्यालयः । यज्ञान्ते शान्तिकुम्भजलेन स्नानस्य गृहम् । तत्पर्य्यायः । आथर्व्वणम् २ । इति हेमचन्द्रः ॥ (यथा, बृहत्संहितायाम् । ४४ । ५ । “कण्ठेषु निबध्नीयात् पुष्ट्यर्थं शान्तिगृहगानाम् ॥”)
