शापः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शापः, पुं, (शपनमिमि । शप + घञ् ।) आक्रोशः । (यथा, रघुः । ५ । ५६ । “संमोचितः सत्त्ववता त्वयाहं शापाच्चिरप्रार्थितदर्शनेन ॥”) दिव्यम् । इति मेदिनी ॥ आद्यस्य पर्य्यायः । अकरणिः २ । इत्यमरः ॥ अजीवनिः ३ अजननिः ४ अवग्रहः ५ निग्रहः ६ । इति भरतः ॥ अभिसम्पातः ७ । इति ग्रन्थान्तरम् ॥ शेषस्य पर्य्यायः । शपनम् २ शपथः ३ । इत्य- मरः ॥ मिथ्यानिरसनम् ४ । इति शब्दरत्ना- वली ॥ (उपद्रवः । यथा, रामायणे । १ । २६ । ३५ । “उवास रजनीं तत्र ताडकाया वने सुखम् । मुक्तशापं वनं तच्च तस्मिन्नेव तदाहनि । रमणीयं विबभ्राज यथा चैत्ररथं वनम् ॥” “मुक्तशापं अपगतोपद्रवम् ।” इति तट्टीका ॥ जलम् । यथा, ऋग्वेदे । १० । २८ । ४ । “प्रतीपं शापं नद्यो वहन्ति ।” “नद्यो गङ्गाद्याः सरितः प्रतीपं प्रतिकूलं शापं उदकं वहन्ति ।” इति तद्भाष्ये सायणः ॥)
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शापः [śāpḥ], [शप्-घञ्]
A curse, an imprecation, anathema; शापेनास्तंगमितमहिमा वर्षभोग्येण भर्तुः Me.1,92; R. 1.78;5.56,59;11.14.
An oath, asseveration.
Abuse, calumny.
An interdiction, a ban.
Trouble, disturbance (उपद्रव); मुक्तशापं वनं तच्च तस्मिन्नेव तदाहनि Rām.1.26.35. -Comp. -अन्तः, -अवसानम्, -निवृत्तिः f. the end of a curse; शापान्तो मे भुजगशयना- दुत्थिते शार्ङ्गपाणौ Me.112; R.8.82. -अम्बु, -उदकम् water used in formularies of cursing. -अस्त्रः 'having a curse for a weapon', a sage, saint; त्राणाभावे हि शापास्त्राः कुर्वन्ति तपसो व्ययम् R.15.3. -उत्सर्गः the utterance of a curse. -उद्धारः, -मुक्तिः f., -मोक्षः release or deliverance from a curse. -ग्रस्त a. labouring under a curse.-प्रदानम् uttering of a curse. -मुक्त a. released from a curse. -यन्त्रित a. restrained by a curse.
