सामग्री पर जाएँ

शाब्दिकः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शाब्दिकः, पुं, (शब्दं करोतीति । शब्द + “शब्द- दर्द्दुरं करोति ।” ४ । ४ । ३४ । इति ठक् ।) शब्दशास्त्रवेत्ता । वैयाकरणः । आदिशाब्दिका यथा, -- “इन्द्रश्चन्द्रः काशकृत्स्ना पिशली शाकटायनः । पाणिन्यमरजैनेन्द्रा जयन्त्यष्टादिशाब्दिकाः ॥” इति कविकल्पद्रुमः ॥ नव्यशाब्दिका यथा । क्रमदीश्वरः । सर्व्ववर्म्मा । पद्मनाभमिश्रः । वोपदेवः । सत्सर्व्वानन्दः । भरतमल्लिकप्रभृतयः ॥ शब्दसम्बन्धिनि, त्रि ॥

"https://sa.wiktionary.org/w/index.php?title=शाब्दिकः&oldid=170499" इत्यस्माद् प्रतिप्राप्तम्