शारदी
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शारदी, स्त्री, (शारद + ङीप् ।) तोयपिप्पली । सप्तपर्णः । इति मेदिनी ॥ कोजागरपूर्णिमा । इति शब्दरत्नावली ॥ शरत्कालीने, त्रि । यथा, स्कान्दभविष्ययोः । “शारदीचण्डिकापूजा त्रिविधा परिगीयते । सात्त्विकी राजसी चैव तामसी चेति तां शृणु ॥ सात्त्विकी जपयज्ञाद्यैर्नैवेद्यैश्च निरामिषैः । माहात्म्यं भगवत्याश्च पुराणादिषु कीर्त्तितम् ॥ पाठस्तस्य जपः प्रोक्तः पठेद्देवीमनाः प्रिये । राजसी वलिदानेन नैवेद्यैः सामिषैस्तथा ॥ सुरामांसाद्युपहारैर्जपयज्ञैर्विना तु या । विना मन्त्रैस्तामसी स्यात् किरातानाञ्च सम्मता ॥” इति तिथ्यादितत्त्वम् ॥ (संवत्सरसम्बन्धिनी । यथा, ऋग्वेदे । १ । १३१ । ४ । “यदिन्द्रशारदीरवातिरः सा सहानो अवा- तिरः ॥”)
अमरकोशः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शारदी स्त्री।
जलपिप्पली
समानार्थक:लाङ्गली,शारदी,तोयपिप्पली,शकुलादनी
2।4।111।1।2
लाङ्गली शारदी तोयपिप्पली शकुलादनी। खराश्वा कारवी दीप्यो मयूरो लोचमस्तकः॥
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, लता
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शारदी f. (only L. )the day of full moon in the month कार्त्तिक(or आश्विन)