शारदीयमहापूजा
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शारदीयमहापूजा, स्त्री, (शारदीया महापूजा ।) शरत्कालीनदुर्गामहापूजा । यथा, -- “शारदीया महापूजा चतुःकर्म्ममयी शुभा । तां तिथित्रयमासाद्य कुर्य्यात् भक्त्या विधा- नतः ॥” इति तिथ्यादितत्त्वम् ॥ अपि च । “हते घोरे महावीरे सुरासुरभयङ्करे । देवीमुपासका देवाः प्रभुता राक्षसास्तथा ॥ समेताः सर्व्वदेवास्ते देवीं भक्त्या तुतोषिरे । वलिञ्च दद्युर्भूतानां महिषाजामिषेण च ॥ एवं तस्मिन् दिने वत्स प्रेतभूतसमाकुलम् । कृतवान् सर्व्वदेवश्च पूजाश्च शाश्वतीर्महान् ॥ जलदान्तेऽश्विने मासि महिषारिनिवर्हिणीम् । देवीं संपूजयित्वा तु अष्टमीष्वर्द्धरात्रिषु ॥ ये घातयन्ति सदा भक्त्या ते भवन्ति महाबलाः । बलिञ्च ये प्रयच्छन्ति सर्व्वभूतविनाशनम् ॥ तेषान्तु तुष्यते देवी यावत् कल्पन्तु शाङ्करम् । क्रीडते विविधैर्भोगैर्देवलोके सुदुर्लभे ॥ यावद्भूर्व्वायुराकाशं जलं वह्निशशिग्रहाः । तावच्च चण्डिकापूजा भविष्यति सदा भुवि ॥ प्रावृट्काले विशेषेण आश्विने ह्यष्टमीषु च । महाशब्दो नवम्याञ्च लोके ख्यातिं गमिष्यति ॥ इन्द्र उवाच । आश्विने घातिते घोरे नवमी प्रतिवत्सरम् । श्रोतुमिच्छाम्यहं तात उपवामव्रतादिकम् ॥ महाव्रतं महापुण्यं शङ्कराद्यैरनुष्ठितम् । कर्त्तव्यं देवराजेन्द्र देवीभक्तिसमन्वितैः ॥ कन्यासंस्थे रवौ शक्र शुक्लामारभ्य नन्दिकाम् । अपाशी त्वथ वैकाशी नक्ताशी वाथ वाय्वदः ॥ प्रातःस्नायी जितद्वन्द्बः त्रिकालं शिवपूजकः । जपहोमसमायुक्तः कन्यकां भोजयेत् सदा ॥ अष्टम्यां नवगेहानि दारुजानि शुभानि च । एवं वा चित्तभावेन कारयेत् सुरसत्तम ॥ तस्मिन् देवी प्रकर्त्तव्या हैमी वा राजती च वा । मृद्वार्क्षी लवनोपेता खड्गे शूलेऽथ पूजयेत् ॥ सर्व्वोपहारसम्पन्नो वस्त्ररत्नफलादिभिः । कारयेद्रथदोलादीन् पूजाञ्च वलिदैवकीम् ॥ पुष्पादिद्रोणविल्वाम्रजातीपुन्नागचम्पकैः । विचित्रां कारयेत् पूजां अष्टम्यामुपवासयेत् ॥ दुर्गाग्रतो जपेन्मन्त्रमेकचित्तः सुभावितः । तदर्द्धयामिनीशेषे विजयार्थे नृपोत्तमैः ॥ पञ्चाब्दं लक्षणोपेतं गन्धधूपस्रगर्च्चितम् । विधिवत कालि कालीति जप्त्वा खड्गेन घात- येत् ॥ तस्योत्थं रुधिरं मांसं गृहीत्वा पूतनादिषु । नैरृताय प्रदातव्या महाकौशिकमन्त्रितम् ॥ तस्याग्रतो नृपः स्नायाच्छक्रं कृत्वा तु पिष्टजम् । खड्गेन घातयित्वा तु दद्यात् स्कन्दविशा- खयोः ॥” ततो देवीं स्नापयेत् प्राज्ञः क्षीरसर्पिर्जला- दिभिः । कुङ्कुमागुरुकर्पूरचन्दनैश्चारुधूपकैः ॥ हैमानि पुष्परत्नानि वासांसि स्वाहतानि च । निवेद्यं सुप्रभूतन्तु देयं देव्याः सुभावितैः ॥ अश्वमेधमवाप्नोति भक्तिमान् सुरसत्तम । महानवम्यां पूजेयं सर्व्वकामप्रदायिका ॥ सर्व्वेषु सर्व्ववर्णेषु तव भक्त्या प्रकीर्त्तिता । कृत्वाप्नोति यशो राज्यं पुत्त्रायुर्धनसम्पदः ॥” इति देवीपुराणे २९ । ३० अध्यायात् सङ्कलितं न तु सक्रमकम् ॥
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शारदीयमहापूजा/ शारदीय--महा-पूजा f. the autumnal great worship (of दुर्गा) Tithya1d.
