सामग्री पर जाएँ

शारीरकम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शारीरकम्, क्ली, (शरीरमेव शारीरं कुत्सितत्वात् तन्निवासी शारीरको जीवस्तमधिकृत्य कृतो ग्रन्थः । शारीरक + अण् ।) वेदव्यासकृतवेदान्त- मीमांसासूत्रम् । यथा । तथा च वयमस्यां शारीरकमीमांसायां प्रदर्शयिष्यामः । वेदान्त- मीमांसाशास्त्रस्य व्याचिख्यासितस्येदमादिमं सूत्रम् । अथातो ब्रह्मजिज्ञासेति । इति शङ्कर- भाष्यम् ॥ (शरीरमेव शरीरकं तत्र भवम् । शरीरक + अण् । शरीरभवे, त्रि । यथा, भागवते । ३ । ३१ । १९ । “पश्यत्ययं धियणया ननु सप्तवध्रिः शारीरके दमशरीर्य्यपरः स्वदेहे ॥”)

"https://sa.wiktionary.org/w/index.php?title=शारीरकम्&oldid=170551" इत्यस्माद् प्रतिप्राप्तम्