शारीरम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शारीरम्, क्ली, वृषः । (शरीरे भवः । शरीर + अण् ।) शरीरजाते, त्रि । इति मेदिनी ॥ * ॥ शारीरदण्डो यथा, -- “दिग्दण्डं प्रथमं कुर्य्यात् वाग्दण्डं तदनन्तरम् । तृतीयं धनदण्डञ्च वधदण्डमतः परमिति ॥” वधदण्डोऽपि शारीरो ब्राह्मण्यव्यतिरिक्तानाम् । इति मिताक्षरायां व्यवहारकाण्डम् ॥ * ॥ शारीरदुःखं यथा, -- “आध्यात्मिको वै द्विविधः शारीरो मानम्ब- स्तथा । शारीरो बहुभिर्भेदैर्भिद्यते श्रूयताञ्च सः ॥ शिरोरोगप्रतिश्यायज्वरशूलभगन्दरैः । गुल्मार्शश्वयथुश्वासच्छर्द्यादिभिरनेकधा ॥ तथाक्षिरोगातीसारकुष्ठाङ्गामयसंज्ञकैः । भिद्यते देहजस्तापो मानसं श्रोतुमर्हसि ॥ कामक्रोधभयद्बेषलोभमोहविषादजः । अथ गर्भिणीं व्याध्युत्पत्तावत्यये छर्द्दयेन्मधुरा- म्लेनान्नोपहितेनानुलोमयेच्च संशमनीयञ्च मृदु विदध्यादन्नपानयोरश्नीयाच्च मृदुवीर्य्यं मधुर- प्रायं गर्भाविरुद्धञ्च गर्भाविरुद्धाश्च क्रिया यथा- योगं विदधीत मृदुप्रायाः ॥ * ॥ भवन्ति चात्र । “सौवर्णं सुकृतं चूर्णं कुष्ठं मधु घृतञ्च वा । मत्स्याक्षकः शङ्खपुष्पी मधु सर्पिः सकाञ्चनम् ॥ अर्कपुष्पी मधु घृतं चूर्णितं कनकं वचा । हेमचूर्णानि कैटर्य्यः श्वेता दूर्व्वा घृतं मधु ॥ चत्वारोऽभिहिताः प्राशाः श्लोकार्द्धेषु चतु- र्ष्वपि । कुमाराणां वपुर्मेधाबलबुद्धिविवर्द्धनाः ॥” इति सुश्रुत आयुर्व्वेदशास्त्रे तृतीयं शारीरस्थानं समाप्तम् ॥ इङ्गेरेजीभाषायां एनाटोमीत्युक्त- मेतत् ॥ * ॥ शारीरं तपो यथा, -- “देवद्बिजगुरुप्राज्ञपूजनं शौचमार्ज्जवम् । ब्रह्मचर्य्यमहिंसा च शारीरं तप उच्यते ॥” इति भगवद्गीतायाम् १७ अध्यायः ॥
