शालग्राम
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शालग्रामः, पुं, विष्णुमूर्त्तिविशेषः । स च गण्ड- क्युद्भववज्रकीटकृतचक्रयुक्तशिला द्वारकोद्भव- तादृशशिला च । तस्य माहात्म्यलक्षणादि यथा, -- “प्रसङ्गात् कथयिष्यामि शालग्रामशिलार्च्चनम् । निष्कामो मुक्तिमाप्नोति मूर्त्तिं ध्यायन् स्तुवन् जपन् ॥ शङ्खचक्रगदापद्मं केशवाख्यो गदाधरः । साब्जकौमोदकीचक्रशङ्खी नारायणो विभुः ॥ स च शङ्खाब्जपदो माधवः श्रीगदाधरः । गदाब्जशङ्खचक्री वा गोविन्दाख्यो गदाधरः ॥ पद्मशङ्खादिगदिने विष्णुशङ्खाय वै नमः । सशङ्खाब्जगदाचक्रमधुसूदनमूर्त्तये ॥ नमो गदासिचक्राब्जयुक्तत्रैविक्रमाय च । साविकौमोदकीपद्मशङ्खवामनमूर्त्तये ॥ शङ्खाब्जचक्रगदिने नमः श्रीधरमूर्त्तये । हृषीकेश साविगदाशङ्खपद्मिन्नमोऽस्तु ते ॥ साब्जशङ्खगदाचक्रपद्मनाभस्वरूपिणे । दामोदर शङ्खगदाचक्रपद्मिन्नमोऽस्तु ते ॥ साविशङ्खगदाब्जाय वासुदेव नमो नमः । शङ्खाब्जचक्रगदिने दमः सङ्कर्षणाय च ॥ शङ्खचक्रगदाब्जाय धृतप्रद्युम्नमूर्त्तये । नमोऽनिरुद्धाय गदाशङ्खाब्जवरधारिणे ॥ साब्जशङ्खगदाचक्रपुरुषोत्तममूर्त्तये । नमोऽधोक्षजरूपाय गदाशङ्खविधारिणे ॥ नृसिंहमूर्त्तये पद्मगदाशङ्खविधारिणे । पद्माविशङ्खगदिने नमोऽस्त्वच्युतमूर्त्तये ॥ सशङ्खचक्राब्जगदं जनार्द्दनमिहो नमः । उपेन्द्रं गदिनं साविपद्मशङ्ख नमोऽस्तु ते ॥ सचक्राब्जगदाशङ्खयुक्ताय हरिमूर्त्तये ।
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शालग्राम¦ पु॰ शालानां वृक्षाणां ग्रामः समहो यत्र।
१ पर्वतभेदे तत्र जातः अण्। तत्र जाते
२ विष्णोर्मूर्त्तिभेदेगण्डकशब्दे
२५
११ पृ॰ दर्शिते गण्डक्या एकदेशस्थलभेदजाते
३ विष्ण्वादिदेवचक्रयुक्तशिलाभेदे च तदुत्पत्ति-र्लक्षणभेदेन तन्नामभेदाश्च यथा
“कीटयोनिं प्रपद्येथा” इतिगण्डक्याः सुरान् प्ततिशापे
“तेन कर्मविपाकेन जडाकृष्णा नदी भयेति” देवानां गण्डकीं प्रति शापे च जातेविष्णुना तत्समाधानायोक्तं यथा
“शृणु ब्रह्मन्! महादेव! शृणु देव! गजानन!। मद्गणो ब्राह्मणौ ग्राहमातङ्गौ शापतोऽत्र वै। भविष्यतस्तयोर्मक्षं मविष्यामि कलेवरम्। शीर्णंभविष्यति यदा तन्मेदोमज्जसंभवाः पाषाणान्तर्गताःकीटा वज्राख्याः प्रभविष्यथ” इति
“अद्यैव गण्डकीपुण्या गङ्गातुल्या महानदी। गण्डक्यां गिरिराजस्यदक्षिणे दशयोजनम्। विस्तोर्णं तन्महाक्षेत्रं पुण्य-शेत्रं महीतले। चक्रतीर्थमिति ख्यातं त्रिषु लोकेषुविश्रुतम्। शालग्रामगता देवा देवो द्वारावतीं गतः। उभयोः सङ्गमो यत्र मुक्तिस्तत्र न संशयः। सर्वदेवप्रीतिकरा भुक्तिमुक्तिप्रदायिनः। भवन्त्वस्यां तु पाषाणा-मेतदन्तर्गता सुराः। प्रार्थितं स्वं विना सर्वे वज्रकीटाभवन्त्विति। अनेनैव तु गण्डक्याः पुत्रत्वं भवतामपि। मविष्यति तदन्तश्च चिह्नं तद्दैवतोद्भवम्। विज्ञाय येऽर्च-विष्यन्ति प्रीषतां सा च देवता” इति विष्णूक्तौ ब्रह्मणातल्लक्षणस्य प्रश्ने विष्णूक्तिर्यथा
“स्योयवर्णा शिला पूज्या ब्राह्मणाद्यैः सुखाप्तस्ये। स्रिग्धाशिला मन्त्रसिद्धिं रूक्षाऽसिद्धिं करोति च। मेचकाकोर्त्तिहा धौताङ्गारवत् सा यशोहरा। पाण्डुरूपार्थ-{??}मलिना पापधीकरी। पीता पुत्रफलं दद्या-{??} सुतान् हरेत्। नीला संदिशते लक्ष्मीं धूम्राभाहरते{??}तिम्। रोगप्रदा रक्तवर्णा सिन्दूराभा महा[Page5100-b+ 38] कलिम्। दारिद्र्यकारिणी वक्रा समा सर्वार्थसाधिका। स्थूला निहन्ति चैवायुः सूक्ष्मा स्वल्पमतिं हरेत्। पूजाफलं लाञ्छितया निष्फला लाञ्छनं विना। क-पिला चित्तवैकल्यं नेत्रयोगञ्च कर्वुरा। भग्ना भङ्गकरो-ज्ञेया बहुचक्रापमानदा। लक्षणान्तरहीना च देवचक्रावियोगदा। वृहन्मुखी कलत्रघ्नी वृहच्चक्रा सुतान्हरेत्। संलग्नचक्रा त्वसुखं बद्धचक्रा महागदम्। भग्न-चक्रा तु दारिद्र्यं सर्वनाशं त्वधोमुखी। कुष्ठादिकंव्यालमुखी विषमा विविधापदः। विकृताबर्त्तनाभिश्चविकारान् कुरुते वहून्। वंशच्छेदो गृहस्थानां नार-सिंह्यां प्रजायते। रेखार्त्ता दुःखदात्री च यथा सूक्ष्मातथा सुखम्। यथा स्निग्धा तथा लक्ष्मीस्तद्विभेदानतःशृणु। लक्ष्मोहरिः
१ स विज्ञेयो यत्र पद्मं सचक्रकम्। केवला वनमाला च गृहस्थानामभीष्टदा। वासुदेवः
२ स विज्ञेयो यद्द्वारे चक्रयुग्मकम्। निरन्तरं समं चापिस श्वेतः पापनाशनः। सङ्कर्षणः
३ स विज्ञेयः प्राक्-पश्चाच्चक्रयुग्मकम्। संलग्नपूर्वभागस्थं महारत्नं सुशो-भनम्। प्रद्युम्नः
४ सूक्ष्मचक्रं स्याच्छिद्रं दीर्घं सुवि-स्तरम्। सुस्थिरान्वबेहिश्छिद्रः पीत इष्टप्रदायकः। अनिरुद्धस्तु
५ नीलाभो वर्तुलश्चातिशोभनः। रेखाद्वयंतु तद्द्वारि पृष्ठं पद्मेन लाञ्छितम्। केशवः
६ स तुविज्ञेयस्त्वेकं वा द्वयमेव वा। प्राग्वा पश्चाच्च चक्रंस्यात् चतुष्काणः स भाग्यकृत्। नारायणः
७ श्यामवर्णोनाभौ चक्रं तथोन्नतम्। दीर्घरेखासमायुक्तं दक्षिणेशुषिरं पृथु। हरिरूपा
८ शिला सा स्यात् यथा ऊर्द्धंसुखं भवेत्। हरिवद् दृश्यते द्वारं भुक्तिमुक्तिप्रदा तुसा। परमेष्ठी
९ स विज्ञेयः पद्मचक्रान्वितस्तु यः। यि-ल्वाकृतिश्च शुक्राभः पृष्ठे च शुषिरं महत्। विष्णुस्तु
१० कृष्णवर्णः स्यात् स्थूलचक्रे सुशोभो। द्वारोपरि तथारेखा दृश्यते मध्यदेशतः। नारसिंहस्तु
११ कपिलःपृथुचक्रो वृहन्मुखः। त्रयो वा पञ्च चा यत्र बिन्दवोगृहिणां न सन्। कपिलनारसिंहस्तु
१२ गुडलाक्षा-निभो भवेत्। स्थूलचक्रद्वयं मध्ये द्वारे रेखा सुशोभना। महानृसिंहो
१३ विज्ञेयः पूर्वोक्तैर्लक्षणैर्युतः। रेस्याश्चकेशराकारा मुखं दीर्थं भयानकम्। लक्ष्मीनृसिहो
१४ विज्ञेयश्चतुश्चक्रः सबिन्दुकः। पूर्वोक्तलंक्षणैर्युक्तो वन-मालाविभूषितः। वराहोऽसौ
१५ शक्तिलिङ्गे चक्रेच विषमे तथा। इन्द्रलीलनिभः स्थूलस्त्रिरखाला-[Page5101-a+ 38] ञ्छिती भवेत्। पृथ्वेवराहनाम्नी
१६ सा या वराहा-कृतिः शिला। आभुग्ना चैव रेखैका गतराज्यप्रदा-यिका। मत्स्याख्या
१७ सा शिला ज्ञेया बिन्दुत्रयविभूषिता। कांस्यद्वारा स्वर्णनिभा दीर्घा सा भुक्ति॰मुक्तिदा। कूर्माख्या
१८ तु शिला पृष्ठे वर्तुला चोन्नताभवेत्। हरितं वर्णमायाता कौस्तुभेन च चिह्निता। शिलाकूर्म
१९ स विज्ञेयः कूर्माकारस्तु यो भवेत्। च-क्राङ्किता तथा वृत्ता पूजिता सा पदप्रदा। हयग्रीवो
२० ऽङ्कुशाकारो रेखा चक्रसमीपगा। बहुबिन्दुसमायुक्तंपृष्ठं नीरदनीलभम्। ज्ञेयः सौम्यहयग्रीवो
२१ हय-ग्रीवासमा शिला। दीर्घया लेखया युक्ता रेखा वातादृशी भवेत्। हयशीर्षः
२२ स विज्ञेयो मुखं यस्यहयाकृति। पद्माकृति भवेद्वापि साक्षमालं शिरस्तथा। वैकण्ठ
२३ स्तिलवर्णाभश्चक्रमेकं तथा ध्वजम्। द्वारापरितथा रेखा पूज्याकारा सुशोभना। श्रोधरस्तु
२४ तथादेवश्चिह्नितो वनमालया। कदम्बकुसुमाकारो रेखापञ्चकभूषितः। वामनः
२५ स तु विज्ञेयो योऽतिह्रखश्चवर्तुलः। अतसीकुसुमप्रख्या बिन्दुनोपरिशोमितः। टधिवामननामा
२६ तु जर्ग्घाधश्चक्रसंयुतः। महाद्युति-रतिह्रस्यः सुभिक्षक्षेमदायकः। सुदर्शन
२७ स्तथा देवःश्यामवर्णो महाद्युतिः। वामपार्श्वे तथा चक्रं रेखैकैवतु दक्षिणे। सहस्रार्जुननामा
२८ ऽसौ नानारेखामयोभवेत्। चक्राकारा यन्त्रपङ्क्तिः स नष्टद्रव्यदायकः। स्थूलदामोदरो
२९ यस्य मध्ये चक्रं प्रतिष्ठितम्। दूर्वा-भो द्वारसंकीर्णः पीतरेखो धनप्रदः। राधादामोदरो
३० ज्ञेय ऊर्द्ध्वाधश्चक्रवद्बिलम्। नातिदीर्घमुखं मध्ये लम्ब-रेखा स भोगदः। दामोदरः
२१ स विज्ञेयो यश्चक्रद्वय-लाञ्छितः। सूक्ष्मं भवेच्चावयवं पूजितः सुखदः सदा। अनन्तो
३२ बहुवर्णः स्यान्नागभोगेन चिह्नितः। अनेक-चक्रसंमिन्नः सर्वकामफलप्रदः। पुरुषोत्तमनामा
३३ ऽसौयस्य दिक्षुविदिक्षु च। ऊर्द्ध्वान्यास्यानि दृश्यन्ते पुरु-पार्थफलप्रदः। योगेश्वरः
३४ स विज्ञेयो लिङ्गं यस्यशिरोगतम्। ब्रह्महत्यादिपापानां नाशको योगसिद्धिदः। पद्मनाभ
३५ स्तथा रक्तः पङ्कजच्छत्रसंयुतः। तुलस्या पूजितो नित्यं दरिद्रस्त्वोश्वरोभयेत्। रश्मिजाली हिरण्याक्ष
३६ श्चन्द्राभः स्फटकोपमः। अथ वाजायते नानास्वर्णरेखाभिरन्वितः। गरुड
३७ स तुविज्ञेया मध्ये पक्षद्वयान्विते। सुदीर्धा दृश्यते रेखा स[Page5101-b+ 38] सर्पविषनाशकः। जनार्दनः
३८ स विज्ञेयः केवलानिस्फुटानि च। यस्योदरे तु चक्राणि चत्वारि पितृतृप्ति-कृत्। लक्ष्मीनारायणो
३९ ज्ञेयो वनमालाङ्कितोदरः। सूक्ष्मद्वारश्चतुश्चकौ भुक्तिमुक्तिप्रदायकः। हृशीकेशः
४० सविज्ञेयो योऽर्द्ध्वंचन्द्राकृतिर्भवेत्। तमभ्यर्च्य लभेत् स्वर्गंविषयांश्च समोहितान्। लक्ष्मीनरहरि
४१ र्ज्ञेयः कृष्ण-वर्णः सबिन्दुकः। वामपार्श्वे समे चक्रे गृहस्थार्भा-ष्टदायकः। त्रिविक्रमस्तु
४२ विज्ञेयः श्यामवर्णो महा-द्युतिः। वामपार्श्वे चक्रयुग्ममेकरेखा तु दक्षिणे। कृष्णो
४३ ज्ञेयः शिला कृष्णा सचक्रा वा विचक्रिका। प्रदक्षिणावर्त्तकृतवनमालाविभूषिता। चतुर्मुखः
४४ स विज्ञेयो द्वे चक्रे मध्यदेशतः। चतस्रः पार्श्वगा रेखावेदशास्त्रागमप्रदः” मेरुत॰। शिवादिशिलाभेदास्तत्रै-वोक्ता यथा शिवोक्तिः
“शालग्रामा मतस्वरूपाः शृणुतेषान्तु लक्षणम्। यत्सेवनाद्भवेदिष्टमिह लाके परत्रच। शिवनाभः
१ स विज्ञेयः सलिङ्गाकारतां गतः। स्वयम्भुलिङ्गाकृतिमान् मन्त्रसिद्धिविधायकः। त्र्यम्चकः
२ स तु विज्ञेया विन्दूत्तरविभूषितः। शूलाकारा तथारेखा गतपुंस्त्वप्रदायकः। धूर्जाटिः
३ स तु विज्ञेयोयत्र रेखा जटासमा। तिस्रो यत्र प्रदृश्यले सोऽर्चिताज्ञानदायकः। शम्भुभ्तु
४ पाण्डुरा ज्ञेयो विन्दुः कृष्णस्तुमस्तके। बिल्वममाणस्तेजस्वी पूजितः स्त्री
२ शङ्करः। ईश्वरः
५ स तु विज्ञेयो रक्ता विन्दुस्तु मस्तके। एक-चक्रो द्विचक्रो वाभ्यन्तरेऽपश्च गोष्पदम्। मृत्युञ्जयः
६ स विज्ञेयस्त्वपमृत्युविनाशकः। अधश्चक्रं तदूर्द्धञ्चश्वेता रेखा त्रिशूलवान्। चन्द्रशेखर
७ नामाऽसावर्द्ध-चन्द्राकृतिस्तु के। मध्ये चक्रद्वयं तस्य सेवनाद्रोगनाश-नम्। रुद्रः
८ स एव विज्ञेयः कपिलो मूर्ध्नि लक्षितः। चक्रमध्ये भवेद्रेखा मारयेद्रिपुसन्ततिम्”।
“शालग्रामानथावक्ष्ये शक्तिकीटसमुद्गवान्। येषां पूजनतो देवी भवानीसुप्रसीदति। श्रीविद्या
१ सा तले चक्रमूर्द्ध्वे छत्रं प्रवृ-श्यते। बाह्ये घण्टाङ्कितो मूर्द्धा स्निग्धा श्यामाखिले-ष्टदा। महाकाली
२ तु सा ज्ञेया योनिचिह्नसमन्विता। द्विच्छिद्राढ्या सर्वशिला त्रिकोणेनाङ्किता च या। यदा-युधाकृतिश्चोर्द्ध्वं तां देवीं तत्र निर्दिशेत्। देवीशिलासचक्रा या दक्षमार्गेण तां यजेत्। सार्चिता वाममार्गणलोकद्वयसुखावहा। या चक्ररहिता देवीशिलांतांवामतोऽर्चयेत्”। [Page5102-a+ 38]
“सौरी शिला दुर्लभैव प्रायः कलियुगे पुनः। स्फटि-काभा भवेत् सा तु धर्मं नित्यं विमुञ्चति। गणेशः स तुविज्ञेयः स्वल्पशुण्डाङ्कितो भवेत्। शुण्डाकारा शिलावापि गजाननसमापि वा। यस्या मध्ये महच्चक्रंसूक्ष्मचक्रञ्च यद्दिशि। सा शिला तस्य दिक्पस्य सेव्यायद्दिशि राज्यदा। अर्द्धचन्द्राकृतिर्यत्र दृश्यते शकल-{??}। सा तु चन्द्रशिला त्र्यस्रयुक्ता भौमशिला मता। वाणाकारेण चिह्नेन ज्ञेया बुधशिला सुराः!। दीर्घेणचतुरस्रेण युक्ता गुरुशिला मता। पञ्चकोणा तु शुक्रस्यचापाकारा शनेर्मता। सर्पाकारा तु राहोः स्यात्केतोस्तु ध्वजरूपिणी” मेरुत॰। तुलसीं प्रति भगवदुक्तिः
“अहञ्च शैलरूपी च गण्डकी-तीरसन्निधौ। अधिष्ठानं करिष्यामि भारते तव शा-षतः। वज्रकीटाश्च कृमयो वज्रदंष्ट्राश्च तत्र वै। त-च्छिकाकुहरे चक्रं करिष्यन्ति मदीयकम्। एकद्वारेचतुरक्रं वनमासाविभूषितम्। नवीननीरदाकारं ल-क्ष्मीनारायणामिधम्
१ । एकद्वारे चतुश्चक्रं नवीननीर-दोपमम्। लक्ष्मीजनार्द्दनं
२ ज्ञेयं रहितं वनमालया। द्वारद्वये चतुरक्रं शोष्पदेन समन्वितम्। रघुनाथाभिधं
३ ज्ञेयं वेष्टित्तं वनमालया। अतिक्षुद्रं द्विचक्रन्तु नवीन-नीरदोपमम्। दधिवासनं
४ विज्ञेयं गृहिणाञ्च सुख-प्रदम्। अतिक्षुद्रं द्विचक्रञ्च वनमालाविभूषितम्। श्रीधरं देवि! विज्ञेयं श्रीपदं गृहिणां सदा। स्थूलञ्चवर्त्तुलाकारं रहितं वनमालया। द्विचक्रं स्फुटमत्यन्तंज्ञेयं दामोदरामिधम्
६ । मध्यभं बर्तुलाकारं द्विचक्रंबाणविक्षतम्। बलरामाभिधं
८ ज्ञेयं शरतूणसमन्वि-तम्। स्थूलं चतुर्दशचक्रं नवीनजलदप्रभम्। अनन्ता-ख्यकं
९ विज्ञेयं चतुर्वर्गफलप्रदम्। मध्यमं सप्तचक्रञ्चछत्रतूणसमन्वितम्। राजराजेश्वरं
१० ज्ञेयं राजस-म्पत्करं नृणाम्। चक्राकारं द्विचक्रञ्च सश्रीकं जलद-प्रभम्। सगोष्पदं मध्यमञ्च विज्ञेयं मधुसूदनम्
११ । सुदर्शनं
१२ चैकचक्रं गुप्तचक्रं गदाधरम्
१३ । द्विचक्रंहयवक्त्रभं हयग्रीवं
१४ प्रकीर्त्तितम्। अतीव विस्तृता-स्यञ्च द्विचक्रं विकटं सति!। नरसिंहाभिधं
१५ ज्ञेयंसद्यो वैराग्यदं नृणाम्। द्विचक्रं विस्तृतास्यञ्च वन-मालासमग्वितन्। लक्ष्मीनृसिंहं
१६ विज्ञेयं गृहिणांसुखदं सदा। द्वारदेशे द्विचक्रञ्च सश्रीकञ्च समं स्फु-टम्। वासुदेवञ्च
१७ विज्ञेयं सर्वकामफलप्रदम्। प्रद्यु-[Page5102-b+ 38] म्नं
१८ सूक्ष्मचक्रञ्च नवीननीरदप्रभम्। शुषिरे छिद्रबहुलं गृहिणाञ्च सुखप्रदम्। द्वे चक्रे चैकलग्ने तुपृष्टे यत्र तु पुष्कलम्। सङ्कर्षणन्तु
१९ विज्ञेयं सुखदंगृहिणां सदा। अनिरुद्धञ्च
२० पीताभं वर्तुलमतिशो-भनम्। सुखप्रदं गृहस्थानां प्रवदन्ति मनीषिणः” ब्रह्मवै॰प्र॰
१९ अ॰।
“शालग्रामशिलाद्वारगतलग्नद्विचक्रधृक। शुक्लाभोवासुदेवाख्यः
१ सोऽव्यात् यः श्रीगदाधरः। लग्नद्वि-चक्रोरक्ताभः पूर्वभागे तु पुष्कलः। सङ्कर्षणो
२ ऽथ प्र-द्युम्नः
३ सूक्ष्मचक्रस्तु पीतकः। सुदीर्घशुषिरच्छिद्रःसोऽनिरुद्धस्तु
४ वर्त्तुलः। नीलोद्वारि त्रिरेखश्च अथ ना-रायणो
५ ऽसितः। मध्ये गदाकृती रेखा नाभिचक्रमहो-न्नतः। पृथुचक्रो नृसिंहो (
६ ) ऽथ कपिलोऽव्यात् त्रिवि-न्दुकः। अथ वा पञ्चबिन्दुस्तत्पूजनं ब्रह्मचारिणाम्। वराहः
७ शुभलिङ्गोऽव्यात् विषमस्थद्विचक्रकः। नील-स्त्रिरेखः स्थूलोऽथ कूर्ममूर्त्तिः
८ सबिन्दुमान्। कृष्णः सवत्तुलावर्त्तः पातु चोन्नतपृष्ठकः। श्रीधरः
९ पञ्चरेखोऽ-व्यात् वनमाली गदान्वितः। वामनो
१० वर्त्तुलो ह्रखःवामचक्रः सुरेश्वरः। नानावर्णोऽनेकमूर्त्तिर्नागभोगी त्व-नन्तकः
११ । स्थूला दामोदरो
१२ नीलो मध्येचक्रःस नीलकः। संकीर्णद्वारकः सोऽव्यादथ ब्रह्मा
१३ सुलोहितः। सदीर्घरेखशुषिर एकचक्राम्बुजः पृथुः। पृथुच्छिद्रः स्थूलचक्रः कृष्णो विष्णुस्तु
१४ बिन्दुमान्। हयग्रीवो
१५ ऽङ्कुशाकारः पञ्चरेखः सकौस्तुभः। वै-कुण्ठो
१६ मणिरत्नाभः एकचक्राम्बुजोऽसितः। म-त्स्यो
१७ दीर्घाम्बुजाकारो द्वाररेखश्च पातु वः। वाम-चक्रो द्वाररेखः श्यामो वोऽव्यात् त्रिविक्रमः
१८ । ए-केन लक्षितो योऽव्यात् गदाधरी सुदर्शनः
१९ । एकद्वारेचतुश्चक्रं वनमालाविभूषितम्। स्वर्णरेखासमायुक्तं गो-ष्पदेन विराजितम्। कदम्बकुमुमाकारं लक्ष्मीनारायणंविदुः” गरुड पु॰
४५ अ॰ पुराणान्तरेष्वपि लक्षणान्त-राणि उक्तानि दृश्यानि। तत्र लक्षणभेदस्तु विकल्पार्थः। वराहपु॰ भूमिं प्रति वराहोक्तिः
“गृहे लिङ्गद्वयंनार्च्यं शालग्रामद्वयं तथा। द्वेचक्रे द्वारकायास्तुनार्च्यं सूर्य्यद्वयं तथा। शालग्रामशिला भग्ना पूजनीयासचक्रिका। खण्डिता स्फुटिता वाऽपि शालग्रामशिलाशुभा। शालपामो न स्प्रष्टघ्यो हीनवर्णैर्वसुन्धरे!। स्त्रीशुद्रकरसंस्पर्शो वज्रस्पर्शाधिको मतः। सोहात् यः[Page5103-a+ 38] संस्पृशेत् शूद्रो योषिद्वापि कदाचन। स पतेन्नरके घोरेयावदाहूतसंश्ववम्। यदि भक्तिर्भवेत्तस्य स्त्रीणां वापि वसु-न्धरे!। दूरादेवास्पृशन् पूजां कारयेत् सुसमाहितः”। तत्पूजने तत्स्पर्शे च स्त्राणां नाधिकर
“न जातुचित्स्त्रियाः कार्यं शालग्रामस्य पूजनम्। भर्तृदीनाऽथसुभगा सर्वलाकहितैषया। मेहात् स्पृशेत्तु महिलाजन्मशीलगुणान्विता। हित्वा पुण्यलमूहं तु सत्वरंनरकं व्रजेत्” ब्रह्मवै॰ पा॰
२० अ॰।
“अभक्ष्यं शिवनिर्माल्य पत्रं पुष्प फलं जलम्। शाल-ग्रामशिलास्पर्शात् पावनं तत् भवेत् सदा”। (
“दद्यात् भक्ताय यो देवि! शालग्रामशिलां नरः। सुवर्णसहितां, पृथ्वी सपर्वतवनान्विता। ससमुद्राभवेद्दत्ता सत्पात्रे च वसुन्धरे!। शामग्रामशिलायास्तुमुल्यमुद्घाटयेत् क्वचित्। विक्रेता क्रयकर्त्ता वा नरकेवै पतेत् ध्रुवम्” वराहपु॰। तस्याकारादिभेदे फलभेदो यथा
“छत्राकारे भवेद्राज्यं वर्तुल च लभेत् श्रियम्। दुः-खञ्च शकटाकारे शूलाभे मरणं भवेत्। विकृतास्ये चदारिद्र्यं पिङ्गले हानिरेव च। लग्नचक्रे भवेद्धानिर्वि-दीर्णे मरणं ध्रुवम्”। तत्स्पर्शेन मिथ्यादिव्यादिकरणादौदोषो यथा
“शालग्रामशिलां धृत्वा मिथ्यावाक्यं वदेत्तुच। स याति कूर्मदंष्ट्रञ्च यावद्वै ब्रह्मणो वयः। शाल-ग्रामशिलां धृत्वा स्वीकारं योन पालयेत्। स प्रयात्यसि-पत्रञ्च लक्षमन्वन्तरावधि। तुलसीपत्रविच्छेदं शालग्रामेकरोति यः। तस्य जन्मान्तरे कान्ते! स्त्रीविश्लेषो भवि-ष्यति। शालग्रामञ्च तलसीं शङ्खञ्चैकत्र एव च। योरक्षति स च ज्ञानी स भवेत् श्रीहरिप्रियः” ब्रह्मवै॰ प्र॰
१९
० अ॰।
“शालग्रामो हरेर्मूर्त्तिर्जगन्नाथश्च भारतम्। कलेर्दशसहस्नान्ते याति त्यक्त्वा हरेः पदम्” ब्रह्मवै॰ प्र॰
६ अ॰।
“शालग्रामाः समाः पूज्याः समेषु द्वितयं न हि। विषमा नैव पूज्याः स्युरेकैव विषमेष्वपि” पद्मपु॰ पा॰
२० अ॰।
“शालग्रामशिलारूपी यत्र तिष्ठति केशवः। तत्र देवा-ऽसुरा यक्षा भुवनानि चतुर्दश” पद्मपु॰।
“अत्र सर्वसान्नि-ध्यादत्र तेषां पूजा प्रतीयते तत्रावाहनविसर्जने न स्तः
“शालग्रामे स्थावरे वा नावाहनविसर्जने” इति राघव-भट्टधृतवाक्यात्” दीक्षा॰ रघु॰।
४ क्षेत्रभेदे न॰ तन्नामकारणं वराहपु॰ उक्तं यथा
“अथ दीर्षेण कालेन स (शालङ्कायनः) मुनिः संशितव्रतः। [Page5103-b+ 38] तप्यमानो यथान्यायं पश्यते शालमुत्तमम्। विश्रामकुरुते तत्र दूष्टुकामोऽथ मां (हरिम्) मुनिः। माययामम मूढात्मा शक्तो द्रष्टुं न मामभूत्। ततः पूर्वेणपार्श्वन तस्य शालस्य सुन्दरि!। वैशाखमासद्बादश्यांमद्दर्शनमुपागतः। दृष्ट्वा मां तत्र स मुनिस्तपस्वी संशित-व्रतः। तुष्टाव वैदिकैः सूक्तैः प्रणम्य च पुतम्पुनः। ततोऽहं स्तूयमानो वै ऋषिमुख्येन सुन्दरि!। प्राप्तो-ऽस्मि परमां प्रीतिं तमवोचं ततो मुनिम्। अत्राश्रमेमहाभाग! स्थित्वा त्वं तपसां निधे!। पुत्रेण परम-प्रीतो मत्क्षेत्रे मत्समो भव। अन्यच्च गुह्यं वक्ष्यामिशालङ्कायन! तच्छृणु। तव प्रोत्या प्रवक्ष्यामि येनैतत् क्षेत्र-मुत्तमम्। शालग्राममिति ख्यातं तन्निबोध मुने! शुभम्। योऽयं वृक्षस्त्वया दृष्टः सोऽहमेव म संशयः” वराहपु॰।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शालग्राम¦ m. (-मः) A particular sacred stone typical of VISHN4U.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शालग्राम/ शाल--ग्राम m. N. of a village situated on the river गण्डकीand regarded as sacred by the वैष्णवs (its name comes from the Sal trees growing near it) Prab. Pur.
शालग्राम/ शाल--ग्राम m. N. of विष्णुas worshipped at शाल-ग्रामor as identified with the Salgram stone MBh.
शालग्राम/ शाल--ग्राम mn. a sacred stone worshipped by the वैष्णवs and supposed to be pervaded by the presence of विष्णु(it is a black stone which contains a fossil ammonite and is chiefly found near the above village in the गण्डकी) RTL. 69 , 1412
शालग्राम/ शाल-ग्राम etc. See. 1. शाल, col. 1.
Purana index
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
--the place where Pulastya and Pulaha had their hermitages. Sages of this locality visited द्वारका; फलकम्:F1: भा. V. 8. ३०; X. ९०. २८ [3].फलकम्:/F fit for श्राद्ध performance; फलकम्:F2: Br. III. १३. ८९; २५. ६६;फलकम्:/F sacred to महादेवी and the पितृस्; फलकम्:F3: M. १३. ३३; २२. ६२.फलकम्:/F the नागराट् तीर्थ at. फलकम्:F4: वा. ७७. ८८-89.फलकम्:/F
Purana Encyclopedia
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
Śālagrāma : m.: Name of a village.
A village sacred to Viṣṇu Nārāyaṇa; Hari is always present there; by approaching Viṣṇu there one got the fruit of Aśvamedha sacrifice and went to the world of Viṣṇu (sthānaṁ nārāyaṇasya tu/sadā saṁnihito yatra harir vasati bhārata/śālagrāma iti khyāto viṣṇor adbhutakarmaṇaḥ/ abhigamya…viṣṇum…/aśvamedham avāpnoti viṣṇulokaṁ ca gacchati//) 3. 82. 106107; there is a well there which freed the visitor of all sins; four oceans are present in it; by bathing in the well one did not meet with calamity (tatrodapāno dharmajña sarvapāpapramocanaḥ/samudrās tatra catvāraḥ kūpe saṁnihitāḥ sadā/tatopaspṛśya rājendra na durgatim avāpnuyāt//) 3. 82. 108.
_______________________________
*1st word in left half of page p574_mci (+offset) in original book.
Mahabharata Cultural Index
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
Śālagrāma : m.: Name of a village.
A village sacred to Viṣṇu Nārāyaṇa; Hari is always present there; by approaching Viṣṇu there one got the fruit of Aśvamedha sacrifice and went to the world of Viṣṇu (sthānaṁ nārāyaṇasya tu/sadā saṁnihito yatra harir vasati bhārata/śālagrāma iti khyāto viṣṇor adbhutakarmaṇaḥ/ abhigamya…viṣṇum…/aśvamedham avāpnoti viṣṇulokaṁ ca gacchati//) 3. 82. 106107; there is a well there which freed the visitor of all sins; four oceans are present in it; by bathing in the well one did not meet with calamity (tatrodapāno dharmajña sarvapāpapramocanaḥ/samudrās tatra catvāraḥ kūpe saṁnihitāḥ sadā/tatopaspṛśya rājendra na durgatim avāpnuyāt//) 3. 82. 108.
_______________________________
*1st word in left half of page p574_mci (+offset) in original book.
