शालीनः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शालीनः, त्रि, (शालाप्रवेशनमर्हतीति । शाला + “शालीनकौपीने अधृष्टाकार्य्ययोः ।” ५ । २ । २० । इति खञ्प्रत्ययेन निपातनात् सिद्धम् ।) अधृष्टः । इत्यमरः ॥ (यथा, मार्कण्डेये । ४१ । ९ । “अथ नित्यं गृहस्थेषु शालीनेषु चरेद्यतिः ॥”) शालासम्बन्धी च ॥
