सामग्री पर जाएँ

शाल्मल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शाल्मलः, पुं, शाल्मलीवृक्षः । इति शब्दरत्ना- वली ॥ (यथा, महाभारते । ३ । ६४ । ३ । “अर्ज्जनारिष्टसञ्छन्नं स्यन्दनैश्च सशाल्मलैः ॥”) द्वीपविशेषः । इति शब्दमाला ॥ तद्बिवरणं यथा, -- “अत ऊर्द्ध्वं प्रवक्ष्यामि शाल्मलस्य निबोधत । शाल्मलो द्बिगुणो द्वीपः क्रौञ्चद्वीपस्य विस्तरात् ॥ परिवार्य्य समुद्रन्तु दधिमण्डोदकं स्थितः । तत्र पुण्या जनपदाश्चिराच्च म्रियते जनः ॥ कुत एव सुदुर्भिक्षं क्षमातेजोयुता हि ते । प्रथमः सूर्य्यसङ्काशः सुमना नाम पर्व्वतः ॥ पीतस्तु मध्यमस्तत्र शातकौम्भमयो गिरिः । नाम्ना सर्व्वसुखो नाम दिव्यौषधिसमन्वितः ॥ तृतीयश्चैव सौवर्णो भृङ्गपत्रनिभो गिरिः । स नाम्ना रोहितो नाम दिव्यो गिरिवरो महान् ॥ सुमनाः कुशलो देशः सुखोदर्कः सुखोदयः । रोहितस्तु तृतीयस्तु रोहिणी नाम विश्रुतः ॥ तत्र रत्नान्यनेकानि स्वयं रक्षति वासवः । प्रजापतिमुपादाय प्रसन्नो विधिवत् स्वयम् ॥ न तत्र नद्यो वर्षं वा शीतोष्णञ्चैव तद्विधम् । वर्णाश्रमाणां वार्त्ता वा त्रिषु द्वीपेषु विद्यते ॥ न गृहं न च दण्डोऽस्ति ईर्ष्यासूया भयं तथा । उद्भिदान्युदकान्यत्र गिरिप्रस्रवणानि च ॥ भोजनं षड्रसं तत्र तेषां स्वयमुपस्थितम् । अधमोत्तमो न तेष्वस्ति न लोभो न परिग्रहः ॥ अरोगा बलवन्तश्च एकान्तसुखिताः प्रजाः । त्रिंशद्बर्षसहस्राणि मानसीं सिद्धिमास्थिताः ॥ स्वस्वमायुःस्वरूपञ्च धर्म्मैश्वर्य्यं तथैव च । शाल्मलाद्येषु विज्ञेयं द्वीपेषु त्रिषु सर्व्वशः ॥ व्याख्यातः शाल्मलाद्यानां द्वीपानान्तु विधिः शुभः । परिमण्डलस्तु स द्वीपश्चक्रवत् परिवेष्टितः । सुरोदेन समुद्रेण द्विगुणेन समन्वितः ॥” इति मत्स्यपुराणे भुवनकोषे सप्तद्वीपनिवेशनं नाम १०० अध्यायः ॥ * ॥ अपि च । “प्लक्षद्बीपप्रमाणात्तु द्विगुणेन समन्ततः । संवेष्ट्येक्षुरसाम्भोधिं शाल्मलिः संव्यवस्थितः ॥ सप्त वर्षाणि तत्रैव तत्रैव कुलपर्व्वताः । ऋज्वायताः सुपर्व्वाणः सप्त नद्यश्च सुव्रताः ॥ कुमुदश्चोन्नतश्चैव तृतीयश्च बलाहकः । द्रोणः कर्णस्तु महिषः ककुद्वान् सप्त पर्व्वताः ॥ योनितोषा विभृष्टा च चन्द्रा शुक्ला विमोचनी । निवृत्तिश्चेति ता नद्यः स्मृताः पापहराः शिवाः ॥ न तेषु विद्यते लोभः क्रोधो वा द्विजसत्तमाः । न चैवास्ति युगावस्था जना जीवन्त्यनामयाः ॥ यजन्ति सततं तत्र वर्णा वायुं सनातनम् । तेषां तस्याथ सायुज्यं स्वारूप्यञ्च सलोकताम् ॥ कपिला ब्राह्मणाः प्रोक्ता राजानश्चारुणास्तथा । पीता वैश्यास्तथा कृष्णा द्बीपेऽस्मिन् वृषला द्विजाः ॥” इति कौर्म्मे भुवनविन्यासे ४६ अध्यायः ॥ * ॥ मोचरसः । इति रत्नमाला ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शाल्मल¦ पु॰ शाल--मलच्। (शिमुल)

१ वृक्षे शब्दर॰

२ तच्चि-ह्नितद्वीपभेदे च विष्णुपु॰
“शाल्मस्येश्वरोधीरो वपुष्मां स्तत्सुतान् शृणु। तेषान्तुनामसञ्चारैः सप्त वर्षाणि तानि वै। श्वेतोऽत्र हरित-श्चैव जीमूतो लोहितस्तथा। वैद्युतो मानसश्चैव सुप्र-भश्च महामुने!। शाल्मलेन समुद्रोऽसौ द्वीपे-नेक्षुरसोदकः। विस्तरोद्विगुणेनायं सर्वतः संवृतः स्थितः। तत्रापि पर्वताः सप्त विज्ञेया रत्नयोनयः। रसाभिव्यञ्ज-कास्ते तु तथा सप्तैव निम्नगाः। कुमुदश्चोन्नतश्चैवतृतीयश्च बलाहकः। द्रोणो यत्र महौषध्यः स चतुर्थोमहीधरः। कङ्कस्तु पञ्चमः षष्ठो महिषः सप्तमस्तथा। कुमुद्वान् पर्वतवरः सरिन्नामानि मे शृणु। योनितोया वितृष्णा च चन्द्रा शुक्ला विमोचनी। निवृत्तिः सप्त-मी तासां स्मृतास्ताः पापशान्तिदाः। श्वेतञ्च लोहित-ञ्चैव जीमूत हरितं तथा। वैद्युतं मानसञ्चैव सु-प्रभं नाम सप्तभम्। सप्तैतानि तु वर्षाणि चातुवर्ण्ययु-तानि वै। शाल्मलेऽपि च ये वर्णा वसन्त्येते महामुने!। कपिलाश्चारुणाः पीताः कृष्णाश्चैव पृथक् पृथक्। ब्रा-ह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव यजन्ति तम। भगवन्तंसमस्तस्य विष्णुमात्मानमव्ययम्। वायुभूत मखश्रेष्ठै-र्यज्विनो यज्ञसंस्थितिम्। देवानामत्र सान्निध्यमत्रैवसुमनोरमे। शाल्मलिश्च महावृक्षो नाम निर्वृतिका-रकः। एष द्वीपः समुद्रेण सुरोदेन समावृतः”।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शाल्मल¦ m. (-लः)
1. The silk-cotton tree.
2. One of the Dwipas or divi- sions of the continent.
3. The gum of the silk-cotton tree. E. See the next.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शाल्मलः [śālmalḥ], [शाल्-मलच्]

The silk-cotton tree.

One of the seven great divisions of the earth.

The gum of the cotton-tree.

N. of a ṛiṣi; V. P.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शाल्मल m. the silk-cotton tree (only ifc. ; See. स-श्)

शाल्मल m. the gum or resin of the cotton tree L.

शाल्मल m. N. of a द्वीप(also -द्वीप) Pur.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

(I)--(शाल्मलि-म्। and वा। प्।): a hell for those fallen from Karma. Br. II. २८. ८३; M. १४१. ६९; वा. ५६. ७८.
(II)--the continent of, twice the extent of क्रौञ्चद्वीप; encircled by the ocean of curds; फलकम्:F1:  M. १२२. ९१-2.फलकम्:/F twice the extent of प्लक्षद्वीप with seven hills, वर्षस् and rivers; in the midst is the शाल्मलि trees. फलकम्:F2:  वा. ४९. २९-45.फलकम्:/F
"https://sa.wiktionary.org/w/index.php?title=शाल्मल&oldid=438645" इत्यस्माद् प्रतिप्राप्तम्