सामग्री पर जाएँ

शाल्मलिः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शाल्मलिः, पुं, स्त्री, वृक्षविशेषः । शिमुल इति भाषा ॥ (यथा मनौ । ८ । ४६ । “शाल्मलीन् शालतालांश्च क्षीरिणश्चैव पाद- पान् ॥”) तत्पर्य्यायः । पिच्छिला २ पूरणी ३ मोचा ४ स्थिरायुः ५ । इत्यमरः ॥ दुरारोहा ६ शाल्म- लिनी ७ शाल्मलः ८ । इति शब्दरत्नावली ॥ तुलिनी ९ कुक्कुटी १० रक्तपुष्पा ११ कण्ट- कारी १२ मोचनी १३ । इति जटाधरः ॥ चिरजीवी १४ पिच्छिलः १५ रक्तपुष्पकः १६ तूलवृक्षः १७ मोचाख्यः १८ कण्टकद्रुमः १९ रक्तोत्पलः २० रम्यपुष्पः २१ बहुवीर्य्यः २२ यमद्रुमः २३ दीर्घद्रुमः २४ स्थूलफलः २५ दोर्घायुः २६ । इति राजनिर्घण्टः ॥ कण्ट- काष्ठः २७ । इति भावप्रकाशः ॥ अस्य गुणाः । पिच्छिलत्वम् । वृष्यत्वम् । बल्यत्वम् । मधु- रत्वम् । शीतलत्वम् । कषायत्वम् । लघुत्वम् । स्निग्धत्वम् । शुक्रश्लेष्मवर्द्धनत्वञ्च । तद्रसगुणाः । ग्राहित्वम् । कषायत्वम् । कफनाशित्वञ्च ॥ तत्पुष्पं फलञ्च तद्विधम् । इति राजनिर्घण्टः । “शाल्मली शीलता स्वाद्वी रसे पाके रसायनी । श्लेष्मला स्निग्धबीजा च वृंहणी रक्तपित्तजित ॥ शाल्मलीपुष्पशाकन्तु घृतसैन्धवसाधितम् । प्रदरं नाशयत्येव दुःसाध्यञ्च न संशयः ॥ रसे पाके च मधुरं कषायं शीतलं गुरु । कफपित्तास्रजिद्ग्राहि वातलञ्च प्रकीर्त्तितम् ॥” इति भावप्रकाशः ॥ * ॥ नरकविशेषः । तत्र शाल्मलिकण्टकैः पीड्यन्ते ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शाल्मलिः [śālmaliḥ], 1 The silk-cotton tree; आपातरम्यपुष्पश्री- शोभितः शाल्मलिर्यथा Bv.1.115; Ms.8.246.

One of the seven great divisions of the earth.

N. of a kind of hell. -Comp. -पत्रकः Alstonia Scholaris (Mar. सातवीण).

स्थः an epithet of Garuḍa.

a vulture.

"https://sa.wiktionary.org/w/index.php?title=शाल्मलिः&oldid=325979" इत्यस्माद् प्रतिप्राप्तम्