शावः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शावः, पुं, (शव्यते प्राप्यते इति । शव गतौ + घञ् ।) शिशुः । इति शब्दरत्नावली ॥ (यथा रघुवंशे । ६ । ३ । “शिलाविभङ्गैर्मृगराजशावः तुङ्गं नगोत्सङ्गमिवारुरोह ॥” शवस्यायम् । शव + अण् ।) शवसम्बन्धिनि, त्रि ॥ यथा, -- “ग्रहणे शावमाशौचं विमुक्तो सौतिकं स्मृतम् । तयोः सम्पत्तिमात्रेण उपस्पृश्य क्रियाक्रमः ॥” इति तिथ्यादितत्त्वे ब्रह्माण्डपुराणम् ॥
