सामग्री पर जाएँ

शावरोत्सवः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शावरोत्सवः, पुं, (शावराणामुत्सवः ।) म्लेच्छ- कृतोत्सवः । यथा, -- “पूजयित्वा महाष्टम्यां नवम्यां बलिभिस्तथा । विसर्ज्जयेत् दशम्यां तु श्रवणे शावरोत्सवैः ॥ अन्तःपादो दिवाभागे श्रवणस्य यदा भवेत् । तदा संप्रेषणं देव्या दशम्यां शावरोत्सवैः ॥ रागिणीभिः कुमारीभिर्व्वेश्याभिर्नर्त्तकैस्तथा । शङ्खतूर्य्यनिनादैश्च मृदङ्गैः पटहैस्तथा ॥ ध्वजैर्वज्रैर्ब्बहुविधैर्लाजपुष्पप्रकीर्णकैः । धूलीकर्द्दमविक्षेपैः क्रीडाकौतुकमङ्गलैः ॥ भगलिङ्गविधानैश्च भगलिङ्गप्रगीतकैः । भगलिङ्गादिशब्दैश्च क्रीडयेयुरलं जनाः ॥ परैर्निक्षिप्यते यस्तु यः परं नाक्षिपत्यपि । क्रुद्धा भगवती तस्य शापं दद्यात् सुदारुणम् ॥” इति कालिकापुराणे उत्तरतन्त्रे ६० अध्यायः ॥

"https://sa.wiktionary.org/w/index.php?title=शावरोत्सवः&oldid=170696" इत्यस्माद् प्रतिप्राप्तम्