सामग्री पर जाएँ

शाश्वतम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शाश्वतम्, त्रि, (शश्वद्भवम् । शश्वत् + अण् ।) नित्यम् । इत्यमरः ॥ (यथा, रामायणे । १ । २ । १५ । “मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः । यत् क्रौञ्चमिथुनादेकमवधीः काममोहितम् ॥”) पारिभाषिकशाश्वतं यथा, -- “शाश्वतं देवपूजादि विप्रदानञ्च शाश्वतम् । शाश्वतं सगुणा विद्याः सुहृन्मित्रञ्च शाश्वतम् ॥” इति गारुडे नीतिसागरे १०९ अध्यायः ॥

"https://sa.wiktionary.org/w/index.php?title=शाश्वतम्&oldid=170698" इत्यस्माद् प्रतिप्राप्तम्