शासनम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शासनम्, क्ली, (शास + ल्युट् ।) आज्ञा । (यथा, मनौ । ९ । २६२ । “कुर्व्वीत शासनं राजा सम्यक् सारापरा- धतः ॥”) तत्पर्य्यायः । अववादः २ निर्द्देशः ३ निदेशः ४ शिष्टिः ५ । इत्यमरः ॥ शास्तिः ६ । इति भरतः ॥ आदेशः ७ आदेशनम् ८ । इति शब्दरत्नावली ॥ शास्त्रम् ९ । इति जटाधरः ॥ राजदत्तभूमिः । लेखा । शास्त्रम् । शास्तिः । इति मेदिनी ॥ (दानलिखितताम्रफलकादिः । यथा, कथासरित्सागरे । १२४ । ६२-६३ । “शासनं लेखयित्वा च तमेवं स समादिशत् । ओ~कारपीठमार्गेण भद्र गच्छोत्तरां दिशम् ॥ तत्रामुना शासनेन ग्रामं भुङ्क्ष्व मदर्पितम् । नाम्ना तं खण्डवटकं पृच्छन् गच्छन्नवाप्स्यसि ॥” यथाच मार्कण्डेये । ३६ । ८ । “वाच्यं ते शासनं पट्टे क्षुद्राक्षरनिवेशितम् ॥” स्त्रियां धर्म्मोपदेशकर्त्रो । यथा, ऋग्वेदे । १ । ३१ । ११ । “इळामकृण्वन्मनुषस्य शासनीम् ॥”)
