शास्त्रज्ञः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शास्त्रज्ञः, त्रि (शास्त्रं जानातीति । ज्ञा + कः ।) शास्त्रवेत्ता । यथा, -- “अनियुक्तो नियुक्तो वा शास्त्रज्ञो वक्तुमर्हति । दैवीं वाचं स वदति यः शास्त्रमुपजीवति ॥” इति व्यवहारतत्त्वधृतनारदवचनम् ॥
