शास्त्रम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शास्त्रम्, क्ली, (शिष्यते अनेन । शास + “सर्व्व- धातुभ्यष्ट्रन् ।” उणा० ४ । १५८ । इति ष्ट्रन् ।) निदेशः । ग्रन्थः । इत्यमरः ॥ स च ग्रन्थः अष्टादशविधः । तस्य विवरणं विद्याशब्दे द्रष्टव्यम् ॥ * ॥ शास्त्रोत्पत्तिर्यथा, -- मत्स्य उवाच । “तपश्चचार प्रथमममराणां पितामहः । आविर्भूतास्ततो वेदाः साङ्गोपाङ्गपदक्रमाः ॥ पुराणं सर्व्वशास्त्राणां प्रथमं ब्रह्मणा स्मृतम् । नित्यशब्दमयं पुण्यं शतकोटिप्रविस्तरम् ॥ अनन्तरञ्च वक्त्रेभ्यो वेदास्तस्य विनिःसृताः । मीमांसान्यायविद्याश्च प्रमाणं तर्कसंयुताः ॥ वेदाभ्यासरतस्यास्य प्रजाकामस्य मानसाः । मनसः पूर्ब्बसृष्टा वै जाता ये तेन मानसाः ॥” इति मात्स्ये ३ अध्यायः ॥ * ॥ शास्त्रोक्तकर्म्म कर्त्तव्यं न तु शास्त्रविरुद्धम् । यथा, -- “श्रुतिस्मृतिसदाचारविहितं कर्म्म केवलम् । सेवितव्यं चतुर्व्वर्णैर्भजद्भिः केशवं सदा ॥ अन्यथा निरयं यान्ति कुमार्गागमसेवनात् । अतो वेदविरुद्धार्थं शास्त्रोक्तं कर्म्म संत्यजेत् ॥ स्वबुद्धिरचितैः शास्त्रैः प्रतार्य्येह च बालिशान् । विघ्नन्ति श्रेयसो मार्गं लोकनाशाय केवलम् ॥ निन्दन्ति देवता वेदांस्तपो निन्दन्ति सद्द्विजान् । तेन ते निरयं यान्ति ह्यसच्छास्त्रनिषेवणात् ॥ श्रुतिस्मृतिसदाचारविहितं कर्म्म शाश्वतम् । स्वं स्वं धर्म्मं प्रयत्नेन श्रेयोऽर्थीह समाचरेत् ॥ स्वबुद्धिरचितैः शास्त्रैर्मोहयित्वा जनं नराः । तेन ते निरयं यान्ति युगानां सप्तविंशतिः ॥” इति पाद्मे उत्तरखण्डे १७ अध्यायः ॥ * ॥ अध्यात्मशास्त्रातिरिक्तशास्त्रनिन्दा यथा, -- “पुराणं भारतं वेदधर्म्मशास्त्राणि यानि च । आयुषः क्षपणायैव धर्म्मतश्चेन्न चाचरेत् ॥ पुत्त्रदारादिसंभारः पुंसां संमूढचेतसाम् । विदुषां शास्त्रसंभारः तद्योगाभ्यासविघ्नकृत् ॥ इदं ज्ञेयमिदं ज्ञेयं यः सर्व्वं ज्ञातुमिच्छति । अपि वर्षशतेनापि शास्त्रान्तं नाधिगच्छति ॥ विज्ञायाक्षरतन्मात्रं जीवितुञ्चापि सञ्चलन् । विहाय शास्त्रजालानि पारलौकिकमाचरेत् ॥ पण्डितोऽपि हि मूर्खोऽसौ शक्तियुक्तोऽप्य- शक्तिकः । यः संसारान्न चात्मानं समुत्तारयितुं क्षमः ॥” इति वह्निपुराणे सुनामद्बादशीनामाध्यायः ॥ * ॥ वेदविरुद्धशास्त्राणि यथा, -- “अन्यानि चैव शास्त्राणि लोकेऽस्मिन्मोहनानि च । वेदवादविरुद्धानि मयैव कथितानि तु ॥ वामं पाशुपतं योगं नाकुलं चैव भैरवम् । असेव्यमेतत् कथितं वेदवाह्यं तथेतरत् ॥ वेदमूर्त्तिरहं विप्रा नान्यशास्त्रार्थवादिभिः । ज्ञायते मत्स्वरूपञ्च त्यक्त्वा वेदं सनातनम् ॥” इति कौर्म्मे उपविभागे ३६ अध्यायः ॥ * ॥ अपि च । कूर्म्मपुराणे हिमालयं प्रति देवी- वाक्यम् । “यानि शास्त्राणि दृश्यन्ते लोकेऽस्मिन् विवि- धानि च । श्रुतिस्मृतिविरुद्धानि निष्ठा तेषां हि तामसी ॥ करालभैरवञ्चापि यामलं वामनाश्रितम् । एवंविधानि चान्यानि मोहनार्थानि तानि तु । मया सृष्टानि चान्यानि मोहायैषां भवार्णवे ॥” तस्मात् सद्भिः श्रुतिस्मृतिविरुद्धे वर्त्मनि न कदा- चित् पदं न्यस्तव्यम् । इति मलमासतत्त्वम् ॥ * ॥ पृथिव्यां तन्त्रशास्त्रावतरणं यथा, -- शिव उवाच । “लम्बोदर महाभाग शृणु मे परमं वचः । इदं महासुसन्दर्भं मम वक्त्राद्बिनिर्गतम् ॥ निर्गतं पार्व्वतीवक्त्रात्तन्त्रं परमदुर्लभम् । विलिख्य बहुयत्नेन गच्छ सिद्धाश्रमं सुत ॥ यत्र तिष्ठन्ति मुनयो वेदवेदाङ्गपारगाः । अणिमादिगुणैर्युक्तः शीघ्रं त्वं भव मे सुत ॥ इत्युक्तः शङ्करेणासौ चाष्टबाहुरभूत्ततः । चतुर्भिर्हस्तैः संलिख्य शिवाय विनिवेदयेत् ॥ शिव उवाच । गच्छ पुत्त्र महाबाहो तन्त्रमादाय सत्वरम् । सिद्धाश्रमं वनं रम्यं यथेन्द्रस्य च नन्दनम् । प्रणम्य प्रययौ शीघ्रं तन्त्रमादाय तद्वनम् ॥” इत्युपक्रम्य । “मुनेर्व्वाक्यं ततः श्रुत्वा तत्तन्त्रं मुनये ददौ । एवं तन्त्राणि सर्व्वाणि विलिख्य विनिवेदयेत् ॥” इति गायत्त्रीतन्त्रे दशमब्राह्मणपटलः ॥ * ॥ शैवपाशुपतादिशास्त्रोत्पत्तिर्यथा, -- “प्रथमं हि मया प्रोक्तं शैवं पाशुपतादिकम् । मच्छक्त्यावेशितैर्विप्रैः संप्रोक्तानि ततः परम् ॥ कणादेन च संप्रोक्तं शास्त्रं वैशेशिकं महत् । गौतमेन तथा न्यायं सांख्यन्तु कपिलेन तु ॥ धिषणेन तथा प्रोक्तं चार्व्वाकमतिगर्हितम् ॥ दैत्यानां नाशनार्थाय विष्णुना बुद्धरूपिणा । बौद्धशास्त्रं तथा प्रोक्तं लग्ननीलपटादिकम् ॥ आपत्यं शुतिवाक्यानां दर्शयन् लोकगर्हितम् । कर्म्मस्वरूपत्याज्यत्वमत्र वै प्रतिपद्यते । सर्व्वकर्म्मपरिभ्रष्टं कल्मषन्तु तदुच्यते ॥ गौतमप्रोक्तशास्त्रार्थनिरताः सर्व्व एव हि । शार्गालीं योनिमापन्नाः सन्दिग्धाः सर्व्व- कर्म्मसु ॥” इति गन्धर्व्वतन्त्रे प्रथमपटलः ॥
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शास्त्रम् [śāstram], [शिष्यते$नेन शास्-ष्ट्रन्]
An order, a command, rule, precept; अतिक्रामति यः शास्त्रं पितुर्धर्मार्थदर्शिनः Mb.5.148. 21.
A sacred precept or rule, scriptural injunction; तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ Bg.16.24.
A religious or sacred treatise, sacred book, scripture; see comps. below.
Any department of knowledege, science; इति गुह्यतमं शास्त्रम् Bg.15.2; शास्त्रेष्वकुण्ठिता बुद्धिः R.1.19; often at the end of comp. after the word denoting the subject, or applied collectively to the whole body of teaching on that subject; वेदान्तशास्त्र, न्यायशास्त्र, तर्कशास्त्र, अलंकार- शास्त्र &c.
What is learnt, knowledge; Śi.5.47.
A work, treatise; तन्त्रैः पञ्चभिरेतच्चकार सुमनोहरं शास्त्रकम् Pt.1.
Theory (opp. प्रयोग or practice); इमं मां च शास्त्रे प्रयोगे च विमृशतु M.1.
The material and spiritual science together; तत्त्वाभेदेन यच्छास्त्रं तत्कार्यं नान्यथाविधम् Mb. 12.267.9. -Comp. -अतिक्रमः -अननुष्ठानम् violation of sacred precepts, disregard of religious authority. -अनुष्ठानम्, -अनुसारः conformity to or observance of sacred precepts. -अन्वित a. conformable to doctrine or rule. -अभिज्ञ a. versed in the Śāstras.
अर्थः the meaning of the sacred precept.
a scriptural precept or statement.
आचरणम् observance of sacred precepts.
the study of Śāstras.
(णः) one versed in scriptures.
a student of Vedas.-आवर्तलिपिः a particular mode of writing. -उक्त a. prescribed by sacred laws, enjoined by the Śāstras, lawful, legal. -कारः, -कृत् m.
the author of a Śāstra or sacred book.
an author in general.
a sage, saint.-कोविद a. versed in the Śāstras. -गण्डः a superficial reader of books, superficial scholar. -चक्षुस् n. grammar (as being the 'eye', as it were, with which to understand any Śāstra). -चारणः one who deserves sacred precepts. -ज्ञ, -दर्शिन्, -विद् a.
well-versed in the Śāstras.
a mere theorist. -ज्ञानम् knowledge of sacred books, conversancy with scriptures. -तत्त्वम् truth as taught in the Śāstras, scriptural truth. ˚ज्ञः an astronomer.-दृष्ट a. stated or enjoined in sacred books; तदहं प्रष्टुमिच्छामि शास्त्रदृष्टेन कर्मणा Rām. -दृष्टिः f. scriptural point of view. -m. an astrologer.
प्रसंगः the subject of the Śāstras.
any discussion on scriptural points. -योनिः the source of the Śāstras. -वक्तृ an expounder of sacred books or knowledge. -वर्जित a. free from all rule or law. -वादः a precept or statement of the Śāstras.-विधानम्, -विधिः a sacred precept, scriptural injunction.
विप्रतिषेधः, विरोधः mutual contradiction of sacred precepts, inconsistency of precepts.
any act contrary to sacred precepts. -विमुख a. averse from study; Pt.1. -विरुद्ध a. contrary to the Śāstras, illegal, unlawful. -व्युत्पत्तिः f. intimate knowledge of the sacred writings, proficiency in the Śāstras. -शिल्पिन् m. the country of Kāśmīra. -सिद्ध a. established by sacred authority.
