शिखण्डः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शिखण्डः, पुं, मयूरपुच्छः । इत्यमरः ॥ यथा, -- “शिखण्डोऽस्त्री पिच्छवर्हे शिखिपुच्छशिख- ण्डके ।” इति शब्दरत्नावली ॥ (यथा, महाभारते । १२ । २८१ । ५८ । “वृत्रस्य रुधिराच्चैव शिखण्डाः पार्थ जज्ञिरे । द्विजातिभिरभक्षास्ते दीक्षितैश्च तपोधनैः ॥”) चूडा । इति मेदिनी ॥
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शिखण्डः [śikhaṇḍḥ], [शिखाममति अम्-ड् तस्य नेत्वम् Tv.]
A lock of hair left on the crown or sides of the head at tonsure.
A peacock's tail; केकाभिर्नीलकण्ठस्तिरयति वचनं ताण्डवादुच्छिखण्डः Māl.9.3.
A crest; आलोकयति पयोदान् प्रबलपुरोवातताडितशिखण्डः V.4.8. -Comp. -खण्डिका the चूडाकरण ceremony; Hch.1.
