सामग्री पर जाएँ

शिज

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शिज, इ ल कि ङ अस्फुटध्वनौ । इति कविकल्प- द्रुमः ॥ (चुरा०-पक्षे भ्वा०-अदा० च-आत्म०- अक०-सेट् ।) अस्फुटध्वनिरिह भूषणकर्त्तृक एव । भूषणानान्तु शिञ्जितमित्यमरात् । इ, शिञ्ज्यते । ल ङ, शिङ्क्ते । कि ङ, शिञ्जयते शिञ्जते मञ्जीरम् । तालैः शिञ्जद्वलयसुभगै- र्नर्त्तितः कान्तयाने इत्यत्र शिञ्जदिति गणकृता- नित्यत्वादिति रमानाथः । वस्तुतस्तु शिङ्क्ते शिञ्जः पचादित्वादन् ततः शिञ्ज इवाचरतीति क्वौ शत्रन्तम् । इति दुर्गादासः ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शिज¦ अस्फुटध्वनौ इदित् वा चु॰ उभ पक्षे अदा॰ आत्मअक॰ सेट्। शिञ्जयति ते शिङ्क्ते अशिशिञ्जत् त अशि-ञ्जिष्ट। भ्वादिरप्ययं पर॰ इत्येके तेन शिञ्जति अशिञ्जीत्

"https://sa.wiktionary.org/w/index.php?title=शिज&oldid=328163" इत्यस्माद् प्रतिप्राप्तम्