सामग्री पर जाएँ

शिथिलम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शिथिलम्, त्रि, (श्रथ + “अजिरशिशिरशिथि- लेति ।” उणा० १ । ५४ । इति किरच्- प्रत्ययेन साधुः ।) श्लथः । इति हेमचन्द्रः ॥ (यथा, भागवते । ४ । २८ । १५ । “शिथिलावयवो यर्हि गन्धर्व्वैर्हृ तपौरुषः ॥”)

शिथिलम्, क्ली, (श्रथ + किरच् ।) मन्दबन्धनम् । मन्यरत्वम् । इति संक्षिप्तसारोणादिवृत्तिः ॥ संयोगविशेषः । यथा, -- “प्रचयः शिथिलाख्यो यः संयोगस्तेन जन्यते ।” इति भाषापरिच्छेदः ॥ “प्रचय इति मूले शिथिलाख्य इति किञ्चिदव- यवावच्छेदेनावयवान्तरसंयोगिनि महत्त्ववति अवयवे वर्त्तमानः संयोगः प्रचय इत्येके । अत्र महत्त्वपद न देयं परमाणुसंयोगस्य प्रचयत्वे- ऽपि न क्षतिरित्यन्ये । भूयोऽवयवावच्छेदेनाव- यवान्तरसंयोगिन्यवयवे वर्त्तमानः संयोगः प्रचयः तेन परमाणुसंयोगो द्व्यणुकसंयोगो वा न प्रचय इत्यमरे ।” इति सिद्धान्तमुक्तावली- टीकादिनकरी ॥

"https://sa.wiktionary.org/w/index.php?title=शिथिलम्&oldid=170882" इत्यस्माद् प्रतिप्राप्तम्