शिपा
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शिपा, स्त्री, नदीविशेषः । यथा, -- “ततो हिमवतः प्रस्थे प्रतीच्यां तत्पुरस्य च । शिप्र नामं सरः पूर्णं ददृशुर्द्रुहिणादयः ॥ तद्रहस्थानमासाद्य ब्रह्मशक्रादयः सुराः । उपविष्टा यथान्यायं पुरस्कृत्य महेश्वरम् ॥ तं शिप्रसंज्ञकासारं मनोज्ञं सर्व्वदेहिनाम् । शीतामलजलं सर्व्वैर्गुणैर्मानससम्मितम् ॥ दृष्ट्वा क्षणं हरस्तस्मिन् सौत्सुकोऽभूदवेक्षणे । शिप्रां नाम नदीं तस्मान्निःसृतां दक्षिणोदधिम् । गच्छन्तीञ्च ददर्शासौ पावयन्तीं जगज्जनान् ॥” इति कालिकापुराणे १९ अध्यायः ॥ (हनुः । यथा, ऋग्वेदे । ८ । ६५ । १० । “उत्तिष्ठन्नोजसा सह पीत्वी शिप्रे अवेपयः ।” “शिप्रे हनू ।” इति तद्भाष्ये सायणः ॥)
