सामग्री पर जाएँ

शिपिविष्टः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शिपिविष्टः, पुं, खलतिः । दुश्चर्म्मा । महेश्वरः । इत्यमरः ॥ कुष्ठी । इत्यमरटीकायां रायमुकुटः ॥ अस्य रूपान्तरम् । शिपविष्टः । शिपिविष्टः । इत्यमरटीका ॥ विष्णुः यथा, -- “नैकरूपी बृहद्रुपः शिपिविष्टः प्रकाशनः ॥” इति तस्य सहस्रनामस्तोत्रं रमानाथश्च ॥ (पशुप्रविष्टे, त्रि । यथा, भागवते । ४ । १३ । ३५ । “पुरोडाशं निरवपन् शिपिविष्टाय विष्णवे ॥” “शिपिषु पशुषु यज्ञरूपेण प्रविष्टाय । तथाच श्रुतिः यज्ञो वै विष्णुः पशवः शिपिः यज्ञ एव पशुषु प्रतितिष्ठतीति ।” इति श्रीधरस्वामी ॥)

"https://sa.wiktionary.org/w/index.php?title=शिपिविष्टः&oldid=170892" इत्यस्माद् प्रतिप्राप्तम्