शिरः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिरः, पुं, पिप्पलीमूलम् । इति मेदिनी । मस्त- कम् । इति जटाधर ॥ (यथा, -- “पिण्डं दद्यात् गयाशिरे ।” इति वायुपुराणम् ॥ “शिरो वाटी शिरोऽदन्तो रजोवाटी रजस्तथा ।” इति कोषान्तरम् ॥) शय्या । अजगरः । इति संक्षिप्तसारोणादिवृत्तिः ॥

शिरः, [स्] क्ली, (श्रि + “श्रयतेः स्वाङ्गे शिरः किच्च ।” उणा० ४ । १९३ । असुन् । सच कित् । धातोः शिरादेशश्च ।) शिखरम् । (यथा, महाभारते । ४ । २३ । २ । “यथा वज्रेण वै दीर्णं पर्व्वतस्य महच्छिरः ॥”) मस्तकम् । इत्यमरः ॥ (यथा, लक्ष्मीचरित्रे । “शिरः सपुष्पं चरणौ सुपूजितौ ॥”) तच्च मासमात्रेण भवति । इति सुखबोधः ॥ तद्रोगनाशकौषधम् । यथा, -- “शिरोरोगहरं लेपात् गुञ्जामूलं सकाञ्जिकम् ।” इति गारुडे १८८ अध्यायः ॥ प्रधानम् । (यथा, भागवते । ५ । १४ । ४५ । “योगाय सांख्यशिरसे प्रकृतीश्वराय ॥”) सेनाग्रम् । इति मेदिनी ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिरः in comp. for शिरस्.

"https://sa.wiktionary.org/w/index.php?title=शिरः&oldid=329092" इत्यस्माद् प्रतिप्राप्तम्