सामग्री पर जाएँ

शिरीष

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शिरीषः, पुं, (शृणाति झटिति म्लायतीति । शॄ + “शॄपॄभ्यां किच्च ।” उणा० ४ । २७ । इति ईषन् सच कित् ।) स्वनामख्यातवृक्षः । (यथा, कुमारे । ५ । ४ । “पदं सहेत भ्रमरस्य पेलवं शिरीषपुष्पं न पुनः पतत्रिणः ॥”) तत्पर्य्यायः । कपीतनः २ भण्डिलः ३ । इत्य- मरः ॥ भण्डिरः ४ भण्डीरः ५ भण्डीलः ६ । इति तट्टीका ॥ मृदुपुष्पः ७ शुकतरुः ८ विष- नाशनः ९ । इति रत्नमाला ॥ शीतपुष्पः १० भण्डिकः ११ स्वर्णपुष्पकः १२ शुकेष्टः १३ वर्ह- पुष्पः १४ विषहन्ता १५ सुपुष्पकः १६ उद्दा- नकः १७ शुक्रतरुः १८ लोमशपुष्पकः १९ कपीतकः २० कलिङ्गः २१ श्यामलः २२ शङ्खिनीफलः २३ मधुपुष्पः २४ वृत्तपुष्पः २५ । पुस्तकान्तरे शिखिनीफलः २६ भण्डी २७ प्लवगः २८ शुकपुष्पः २९ । अस्य गुणाः । कटुत्वम् । शीतत्वम् । विषवातपामास्रकुष्ठकण्डूतित्वग्- दोषनाशित्वञ्च । इति राजनिर्घण्टः ॥ अपि च । “शिरीषो भण्डिलो भण्डी भण्डीरश्च कपीतनः शुकपुष्पः शुकतरुर्मृदुपुष्पः शुकपियः ॥ शिरीषो मधुरोऽनुष्णस्तिक्तश्च तुवरो लघुः । दोषशोथविसर्पघ्नः काशव्रणविषापहः ॥” इति भावप्रकाशः ॥ * ॥ कण्टकशिरीषस्य पर्य्यायः । “कटभी किणिही श्वेता महाश्वेता च रोहिणी ।” इति रत्नमाला ॥ * ॥ अस्य गुणाः । “शिरीषो विषवीसर्पस्वेदत्वग्दोषशोथजित् ।” इति राजवल्लभः ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शिरीष पुं।

शिरीषः

समानार्थक:शिरीष,कपीतन,भण्डिल

2।4।63।1।3

कपिला भस्मगर्भा सा शिरीषस्तु कपीतनः। भण्डिलोऽप्यथ चाम्पेयश्चम्पको हेमपुष्पकः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शिरीष¦ पु॰ शॄ--ईषन् किच्च। खनापख्याते वृक्षे अमरः।
“क्षिरीषो मघुरोऽनुष्णस्तिक्तश्च तुवरो लघुः। दोषशोथविसर्पघ्नः कासव्रणविषापहः” भावप्र॰।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शिरीष¦ m. (-षः) A kind of tree, (Acacia sirisa.) E. शॄ to injure, Una4di aff. ईषन् |

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शिरीषः [śirīṣḥ], [शॄ-ईषन् किच्च Uṇ.4.28] N. of a tree. -षम् A flower of this tree (regarded as the type of delicacy); शिरीषपुष्पाधिकसौकुमार्यौ बाहू तदीयाविति मे वितर्कः Ku.1.41; so पदं सहेत भ्रमरस्य पेलवं शिरीषपुष्पं न पुनः पतत्रिणः 5.4; R.16. 48; Me.67.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शिरीष m. Acacia Sirissa ( n. its flower) Shad2vBr. etc.

शिरीष m. pl. N. of a village Pat. on Pa1n2. 1-2 , 51.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

--of आत्रेय gotra. M. १९७. 7.

"https://sa.wiktionary.org/w/index.php?title=शिरीष&oldid=438706" इत्यस्माद् प्रतिप्राप्तम्