शिरीषः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शिरीषः, पुं, (शृणाति झटिति म्लायतीति । शॄ + “शॄपॄभ्यां किच्च ।” उणा० ४ । २७ । इति ईषन् सच कित् ।) स्वनामख्यातवृक्षः । (यथा, कुमारे । ५ । ४ । “पदं सहेत भ्रमरस्य पेलवं शिरीषपुष्पं न पुनः पतत्रिणः ॥”) तत्पर्य्यायः । कपीतनः २ भण्डिलः ३ । इत्य- मरः ॥ भण्डिरः ४ भण्डीरः ५ भण्डीलः ६ । इति तट्टीका ॥ मृदुपुष्पः ७ शुकतरुः ८ विष- नाशनः ९ । इति रत्नमाला ॥ शीतपुष्पः १० भण्डिकः ११ स्वर्णपुष्पकः १२ शुकेष्टः १३ वर्ह- पुष्पः १४ विषहन्ता १५ सुपुष्पकः १६ उद्दा- नकः १७ शुक्रतरुः १८ लोमशपुष्पकः १९ कपीतकः २० कलिङ्गः २१ श्यामलः २२ शङ्खिनीफलः २३ मधुपुष्पः २४ वृत्तपुष्पः २५ । पुस्तकान्तरे शिखिनीफलः २६ भण्डी २७ प्लवगः २८ शुकपुष्पः २९ । अस्य गुणाः । कटुत्वम् । शीतत्वम् । विषवातपामास्रकुष्ठकण्डूतित्वग्- दोषनाशित्वञ्च । इति राजनिर्घण्टः ॥ अपि च । “शिरीषो भण्डिलो भण्डी भण्डीरश्च कपीतनः शुकपुष्पः शुकतरुर्मृदुपुष्पः शुकपियः ॥ शिरीषो मधुरोऽनुष्णस्तिक्तश्च तुवरो लघुः । दोषशोथविसर्पघ्नः काशव्रणविषापहः ॥” इति भावप्रकाशः ॥ * ॥ कण्टकशिरीषस्य पर्य्यायः । “कटभी किणिही श्वेता महाश्वेता च रोहिणी ।” इति रत्नमाला ॥ * ॥ अस्य गुणाः । “शिरीषो विषवीसर्पस्वेदत्वग्दोषशोथजित् ।” इति राजवल्लभः ॥
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शिरीषः [śirīṣḥ], [शॄ-ईषन् किच्च Uṇ.4.28] N. of a tree. -षम् A flower of this tree (regarded as the type of delicacy); शिरीषपुष्पाधिकसौकुमार्यौ बाहू तदीयाविति मे वितर्कः Ku.1.41; so पदं सहेत भ्रमरस्य पेलवं शिरीषपुष्पं न पुनः पतत्रिणः 5.4; R.16. 48; Me.67.
