शिरोमणिः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शिरोमणिः, पुं स्त्री, (शिरसो मणिः ।) मस्तक- धार्य्यरत्नम् । तत्पर्य्यायः । चूडामणिः २ शिरो- रत्नम् ३ । इति शब्दरत्नावली ॥ पण्डितस्य उपाधिविशेषश्च ॥ (द्वयोरुदाहरणम् । यथा, -- “यस्य सांसारिकी चिन्ता चिन्ता चिन्तामणेः कुतः । तयैव हि शिरःकम्पः क्व शिरोमणिधारणम् ॥” इत्युद्भटः ॥)
