सामग्री पर जाएँ

शिरोरोगः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शिरोरोगः, पुं, (शिरसो रोमः ।) मस्तकपीडा । यथा, -- अथ शिरोरोगाधिकारः । अत्र शिरोरोगस्य निदानं सख्याञ्चाह । “शिरोरोगास्तु जायन्ते वातपित्तकफैस्त्रिभिः । सन्निपातेन रक्तेन क्षयेण कृमिभिस्तथा ॥ सूर्य्यावर्त्तानन्तवातशंखकार्द्धावभेदकाः । एकादशविधस्यास्य लक्षणानि प्रचक्षते ॥” शिरोरोगा अत्र शिरोरोगः शूलरूपा रुगभि- धीयते । वातपित्तकफैस्त्रिभिः । ननु वातपित्त- कफैरित्युक्ते तत्त्रित्वबोधात् । किमर्थं त्रिभि- रिति पदम् । वातपित्तकफानां पृथक्कार- णत्वबोधनार्थम् । तर्हि सर्व एव शिरोरोगाः सन्निपातसमुद्भवा इति कथम् । तदा वातादय उल्वणतया पृथक्कारणानि बोद्धव्यानि । क्षयेण रसादिक्षयेण ॥ * ॥ वातिकस्य लक्षणमाह । “यस्यानिमित्तं शिरसो रुजश्च भवन्ति तीव्रा निशि चातिमात्रम् बन्धोपतापैः प्रशमश्च यत्र शिरोऽभितापः स समीरणेन ॥” भवेदिति विशेषः । अनिमित्तं अतर्कितविप्र- कृष्टनिमित्तम् । निशि चातिमात्रं रात्री शैत्येन रोगाधिक्यात् । प्रतापः स्वेदनम् । शिरोऽभि- तापः शिरःपीडा ॥ * ॥ पैत्तिकमाह । “यस्योष्णमङ्गारचितं यथैव भवेच्छिरो दह्यति नाक्षिनाशम् । शीतेन रात्रौ च भवेच्छमश्च शिरोऽभितापः स तु पित्तकोपात् ॥ दह्यतीत्यार्षत्वात् ॥ * ॥ श्लैष्मिकमाह । “शिरो भवेद्यस्य कफोपदिग्धं गुरु प्रतिष्टब्धमथो हिमञ्च । सूनाक्षिनासावदनञ्च यस्य शिरोऽभितापः स कफप्रकोपात् ॥” कफोपदिग्धं अन्तःकफलिप्तम् । प्रतिष्टब्धं स्तब्ध- शिरम् ॥ * ॥ सान्निपातिकमाह । “शिरोऽभितापे त्रितयप्रवृत्ते सर्वाणि लिङ्गानि समुद्भवन्ति ॥” * ॥ रक्तजमाह । “रक्तात्मिकः पित्तसमानलिङ्ग- स्पर्शासहत्वं शिरसो भवेच्च ॥” पैत्तिकाद्भेदकलिङ्गमाह । शिरःस्पर्शासहत्व- मिति ॥ * ॥ क्षयजमाह । “वसावलासक्षतसम्भवानां शिरोगतानामतिसंक्षयेण । क्षयप्रवृत्तिः शिरसोऽभितापः कष्टो भवेदुग्ररुजोऽतिमात्रम् ॥” क्षतसम्भवं रुधिरम् । कष्टः कृच्छ्रसाध्यः । “श्रमो भ्रमति तुद्येत शिरो विभ्रान्तनेत्रता । मूर्च्छा गात्रावसादश्च शिरोरोगे क्षयात्मिके ॥” कृमिजमाह । “निस्तुद्यते यस्य शिरोऽतिमात्रं संभक्ष्यमाणं स्फुरतीव चान्तः । लावनं क्षीरसर्पिर्भ्यां पानञ्च क्षीरसर्पिषोः । क्षीरपिष्टस्तिलैः स्वेदी जीवनीयैश्च शस्यते ॥ भृङ्गराजरसच्छागक्षीरतुल्यार्कतापितः । सूर्य्यावर्त्तं निहन्त्याशु नस्येनैव प्रयोगराट् ॥ * ॥ अर्द्धावभेदके पूर्व्वं स्नेहस्वेदो हि भेषजम् ॥ विरेकः कायशुद्धिश्च धूपस्निग्धोष्णभोजणम् । विडङ्गानि तिलान् कृष्णान् समान् पिष्ट्वा विलेपयेत् ॥ नस्यं वाप्याचरेत्तस्मादर्द्धभेदं व्यपोहति । पिबेत् सशकरं क्षीरं नीरं वा नारिकेलजम् ॥ सुशीतं वापि पानीयं सर्पिर्व्वा नस्ततस्तयोः ॥” नस्ततः नासिकया पिबेदित्यन्वयः । तयोः सूर्य्यावर्त्तार्द्धभेदयोः ॥ * ॥ “अनन्तवाते कर्त्तव्यः सूर्य्यावर्त्तहितो विधिः । शिराव्यधश्च कर्त्तव्योऽनन्तवातप्रशान्तये ॥ आहारश्च प्रदातव्यो वातपित्तविनाशनः । मधुमस्तकसंयावघृतपूपैर्विशेषतः ॥” संयावः पक्वान्नविशेषः । एरकिया इति लोके । स च मधुमस्तकः मघुनोपलिप्तः । घृतपूरो- ऽपूपः । “पथ्याक्षधात्री रजनी गुडूची भूनिम्बनिम्बैः सगुडः कषायः । भ्रूशङ्खकर्णाक्षिशिरोऽर्द्धशूलं निहन्ति नासानिहितः क्षणेन ॥” इति पथ्यादिक्वाथः ॥ * ॥ “दार्व्वी हरिद्रा मञ्जिष्ठा सनिम्बोशीरपद्मकम् । एतत्प्रलेपनं कुर्य्याच्छङ्खकस्य विनाशयेत् ॥ पीततोयाभिषेकञ्च शीतलक्षीरसेवनम् । कल्कैश्च क्षीरवृक्षाणां शङ्खके लेपनं हितम् ॥” सर्वषु । “यष्टीमधुकमाषः स्यात् तूर्य्यांशन्तु विषम्भवेत् । तयोश्चूर्णन्तु सूक्ष्मं स्यात्तच्चूर्णं सर्षपोन्मितम् ॥ नासिकाभ्यन्तरे न्यस्तं सर्व्वां शीर्षव्यथां हरेत् । दृष्टप्रयोगो योगोऽयमनुभाविभिरादृतः ॥ आर्द्रं यच्छक्तिकाचूर्णं चूर्णितं नवसादरम् । उभयं योजितं गन्धात्तस्य नश्यति शीर्षरुक ॥” इति भावप्रकाशे शिरोरोगाधिकारः ॥

"https://sa.wiktionary.org/w/index.php?title=शिरोरोगः&oldid=170974" इत्यस्माद् प्रतिप्राप्तम्