शिलः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शिलः, पुं, क्ली, (शिल + कः ।) उञ्छः । इति मेदिनी ॥ (यथा, भागवते । ११ । १७ । ४१ । “अन्याभ्यामेव जीवेत शिलैर्वा दोषदृक् तयोः ॥”) जीवनोपायविशेषः । यथा, -- “ऋतामृताभ्यां जीवेत्तु मृतेन प्रमृतेन वा । सत्यानृताभ्यामपि वा न श्ववृत्त्या कदाचन ॥ ऋतमुञ्छशिलं ज्ञेयममृतं स्यादयाचितम् । मृतन्तु याचितं भैक्षं प्रमृतं कर्षणं स्मृतम् ॥” इति मानवे ४ अध्यायः ॥ “अवाधितस्थानेषु पथि वा क्षेत्रेषु वा अप्रति- हतावकाशेषु यत्र यत्रौषधयो विद्यन्ते तत्र तत्राङ्गुलीभ्यां एकैकं कणं समुच्चयित्वा इति बौधायनदर्शनात् । एकैकधान्यादिगुडकोच्चय- मुञ्छः । मञ्जर्य्यात्मकानेकधान्याच्चयनं शिलः । उञ्छश्च शिलश्च इत्येकवद्भावः । तत् सत्यसमान- फलत्वादृतमित्युच्यते ।” इति तट्टीकायां कुल्लूक- भट्टः ॥ (रघुवंशीयपारियात्रनृपपुत्त्रः । यथा, रघुवंशे । १८ । १७ । “तस्याभवत् सूनुरुदारशीलः शिलः शिलापट्टविशालवक्षाः ॥”)
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शिलः [śilḥ] लम् [lam], लम् Gleaning ears of corn (more than one at a time); शिलानप्युञ्छतो नित्यं पञ्चाग्नीनपि जुह्वतः Ms.3.1; Bhāg.1.31.11.
Comp. उच्छः gleaning ears of corn; शिलोञ्छमप्याददीत विप्रो$जीवन्यतस्ततः Ms.1.112; Bhāg.3.12.42.
an irregular occupation.
poor subsistence (अल्पसंग्रह); एवंवृत्तस्य नृपतेः शिलोञ्छेनापि जीवतः Ms.7.33. -वृत्तिः subsistence by gleaning.
