सामग्री पर जाएँ

शिलोञ्छ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शिलोञ्छः, पुं, उञ्छशिलम् । उपात्तशस्यात् क्षेत्रात् शेषावचयनम् । उञ्छेन परिचञ्च्वादान- वद्ग्रहणेन शिष्यते सञ्चीयते उञ्छशिलम । उछि शुञ्छे शिल शुञ्छे कृद्धोरित्युक्ते कृ ग ज्ञेति इजुङत्वात् कः उञ्छशिलं संघातविगृहीतं विपर्य्यस्तम् । “शक्यं न चेदुञ्छशिलेन वृत्तिः फलेन मूलेन च वारिणा च ।” इति समाहारद्वन्द्वे । उञ्छं शिलञ्च । “उञ्छभैक्षञ्च यच्चान्यत् तत् परिग्रहणं त्वृतम् ।” इति निगमाभिधाने क्लीवं पुमानुञ्छ ऋतं शिलं इति वोपालिते पुंस्युञ्छः । “रघुकाराहृतसारे परिणतवाक् कल्मकेदारे । भवभूतिकृतशिलोञ्छे तत्तलपतितं वयं चिनुमः ॥” इति गोवर्द्धनः । केचिदुञ्छशिलयोर्भेदमाहुः । प्रतिग्रहात् शिलं श्रेयस्ततोऽप्युञ्छः प्रशस्यते इति । तत्र शाल्यादेर्निपातितपरित्यक्तमञ्ज- रीणां आदानं शिलम् । शिलं धान्यमञ्जरी- संग्रह इति स्वामी च । एकैकशः कपोत- बद्धान्यकणोद्ग्रहणमुञ्छः । तदुक्तं उञ्छो धान्य- कणोच्चय इति । शिलं तालव्यादि दन्त्यादि च । इत्यमरटीकायां भरतः ॥ यथा, मनौ ७ । ३३ । “एवं वृत्तस्य नृपतेः शिलोञ्छेनापि जीवतः । विस्तीर्य्यते यशो लोके तैलबिन्दुरिभाम्भसि ॥”)

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शिलोञ्छ¦ पु॰ शिलेनोञ्छ उछि--घञ्। उपात्तशस्यात् क्षेत्रात्शेषावचयने।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शिलोञ्छ¦ m. (-ञ्छः)
1. Following more than one occupation.
2. Gleaning. E. शिला gleaning, उञ्छ् to gather or glean, aff. अच्; gleaning a subsistence.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शिलोञ्छ/ शिलो m. du. or n. sg. (as a द्वंद्व) gleaning ears and picking up grains (hence " following an irregular occupation ") Mn. Ya1jn5. BhP.

शिलोञ्छ/ शिलो etc. See. col. 1.

"https://sa.wiktionary.org/w/index.php?title=शिलोञ्छ&oldid=330474" इत्यस्माद् प्रतिप्राप्तम्