सामग्री पर जाएँ

शिल्पकारिन्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शिल्पकारी, [न्] त्रि, (शिल्पं कर्त्तुं शीलमस्य । णिनिः ।) शिल्पकर्म्मकर्त्ता । तस्योत्पत्त्यादि यथा, -- “विश्वकर्म्मा च शूद्रायां वीर्य्याधानं चकार सः । ततो बभूवुः पुत्त्राश्च नवैते शिल्पकारिणः ॥ मालाकारः कर्म्मकारः शङ्खकारः कुविन्दकः । कुम्भकारः कंसकारः षडेते शिल्पिनां वराः ॥ सूत्रधारश्चित्रकरः स्वर्णकारस्तथैव च । पतितास्ते ब्रह्मशापादजात्या वर्णसङ्कराः ॥ स्वर्णकारः स्वर्णचौर्य्यात् ब्राह्मणानां द्विजोत्तम । बभूव सद्यः पतितो ब्रह्मशापेन कर्म्मणा ॥ सूत्रधारो द्विजातीनां शापेन पतितो भुवि । शीघ्रञ्च यज्ञकाष्ठञ्च न ददौ तेन हेतुना ॥ व्यतिक्रमेण चित्राणां सद्यश्चित्रकरस्तथा । पतितो ब्रह्मशापेन ब्राह्मणानाञ्च कोपतः ॥ कश्चिद्वणिग्विशेषश्च संसर्गात् स्वर्णकारिणः । स्वर्णचीर्य्यादिदोषेण पतितो ब्रह्मशापतः ॥” इति ब्रह्मवैवर्त्ते ब्रह्मखण्डे १० अध्यायः ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शिल्पकारिन्¦ त्रि॰ शिल्पं चित्रादिकलां करोति कृ--णिनि। चित्रादिकर्त्तरि।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शिल्पकारिन्/ शिल्प--कारिन् m. ( Ma1rkP. )=prec.

"https://sa.wiktionary.org/w/index.php?title=शिल्पकारिन्&oldid=330596" इत्यस्माद् प्रतिप्राप्तम्