शिवज्ञानम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शिवज्ञानम्, क्ली, (शिवस्य ज्ञानमस्मात् ।) शुभा- शुभकालबोधकशास्त्रम् । यदा यात्रादिक्रिया अवश्यकर्त्तव्या ज्योतिः शास्त्रोक्तशुभक्षणप्राप्तिश्च न भवति तदा शिवज्ञानोक्तशुभसमये कर्म्म कर्त्तुमुचितं भवति । एतच्छिवज्ञानोक्तमाहेन्द्र- योगे कृतयात्रादिर्जयं अमृतयोगे कार्य्यसिद्धिं वक्रे कार्य्यनाशं शून्ये मृत्युं अपमानं वा प्राप्नोति । दिवारात्रौ माघ-फाल्गुन-चैत्र- वैशाखश्रावणभाद्रेषु एते योगा एकरुपाः आश्विनकार्त्तिकाग्रहायणपौषेषु एकप्रकाराः ज्यैष्ठाषाढयोश्च एकरूपा भवन्ति ॥ यथा, --
