शिवनाभि
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शिवनाभिः, पुं, (शिवस्य नाभिरिव ।) शिवलिङ्ग- विशेषः । यथा, -- “उत्तमं मध्यमधमं त्रिविधं लिङ्गमीरितम् । चतुरङ्गुलमुत्सेधे रम्यवेदिकमुत्तकम् ॥ उत्तमं लिङ्गमाख्यातं मुनिभिः शास्त्रकोविदैः । तदर्द्धं मध्यमं प्रोक्तं तदर्द्धमधमं स्मृतम् ॥ शिवनाभिमयं लिङ्गं प्रतिपूज्य महर्षिभिः । श्रेष्ठञ्च सर्व्वलिङ्गेभ्यस्तस्मात् पूज्यं विधानतः ॥” इति वीरमित्रोदयः ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शिवनाभि¦ पु॰ शिव{??} नाभिरिव। शिवलिङ्गभेदे
“शिवनाभिमयं लिङ्गं प्रतिपूज्यं महर्षिभिः। श्रेष्ठञ्च सर्वलिङ्गेभ्यस्तस्मात् पूज्यं विधानतः” वीरमि॰। अच समा॰। शिवनाभः शालग्रामशिलाभेदे शालग्रामशब्दे दृश्यम्।
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शिवनाभि/ शिव--नाभि m. " शिव's navel " , a partic. form of शिव-लिङ्गL.