शिवरात्रिः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शिवरात्रिः, स्त्री, (शिवप्रिया रात्रिः ।) शिव- चतुर्द्दशी । यथा, कालमाधवीये स्कान्दे नागर- खण्डम् । “माघमासस्य शेषे या प्रथमे फाल्गुणस्य च । कृष्णा चतुर्द्दशी सा तु शिवरात्रिः प्रकीर्त्तिता ॥” अत्रैकस्यास्तिथेर्म्माघीयत्वफाल्गुनीयत्वे मुख्य- गौणवृत्तिभ्यां अविरुद्धे । ततस्तु माघ्यनन्तरा चतुर्द्दशी शिवरात्रिः तस्यामुपवासः प्रधानम् । “न स्नानेन न वस्त्रेन न धूपेन न चार्च्चया । तुष्यामि न तथा पुष्पैर्यथा तत्रोपवासतः ॥” इति शङ्करोक्तेः ॥ * ॥ स्कान्दे । “ततो रात्रौ प्रकर्त्तव्यं शिवप्रीणनतत्परः । प्रहरे प्रहरे स्नानं पूजाञ्चैव विशेषतः ॥” अत्र वीप्सया प्रहरचतुष्टयसाध्यं व्रतं प्रतीयते नरसिंहाचार्य्यधृतेश्वरसंहितायाम् । “शैवो वा वैष्णवो वापि यो वा स्यादन्यपूजकः । सर्व्वं पूजाफलं हन्ति शिवरात्रिबहिर्म्म खः ॥ * ॥ संवत्सरप्रदीपे । “दुग्धेन प्रथमं स्नानं दध्ना चैव द्वितीयके । तृतीये च तथाज्येन चतुर्थे मधुना तथा ॥” ईशानसंहितायाम् । “माघे कृष्णचतुर्द्दश्यां रविवारो यदा भवेत् । भौमो वापि भवेद्देवि कर्त्तव्यं व्रतमुत्तमम् ॥ शिवयोगस्य यौगेन तद्भवेदुत्तमोत्तमम् । शिवरात्रिव्रतं नाम सर्व्वपापप्रणाशनम् । आचाण्डालमनुष्याणां भुक्तिमुक्तिप्रदायकम् ॥” नागरखण्डे । “उपवासप्रभावेण बलादपि च जागरात् । शिवरात्रेस्तथा तस्य लिङ्गस्यापि प्रपूजया । अक्षयान्लभते लोकान् शिवसायुज्यमाप्नुयात् ॥” पाद्मे । “वर्षे वर्षे महादेवि नरो नारी पतिव्रता । शिवरात्रौ महादेवं कामं भक्त्या प्रपूजयेत् ॥” ईश्वानसंहितायाम् “एवमेव व्रतं कुर्य्यात् प्रति संवत्सरं व्रती । द्वादशाब्दिकमेतद्धि चतुर्व्विंशाब्दिकं तथा । सर्व्वान् कामानवाप्नोति प्रेत्यचेह च मानवः ॥” हेमाद्रिधृता स्मृतिः । “प्रदोषव्यापिनी ग्राह्या शिवरात्रिचतुर्द्दशी ॥” प्रदोषमाह वत्सः । “प्रदोषोऽस्तमयादूर्द्ध्वं घटिकाद्वयमिष्यते ॥” भोक्ष्येऽहं भुक्तिमुक्त्यर्थं शरणं मे भवेश्वर ॥ पञ्चगव्यामृतैः स्नात्वा अन्तकाले गुरुं श्रितः । ओ~ नमो नमः शिवाय गन्धाद्यैः पूजयेद्धरम् ॥ तिलतण्डुलव्रीहींश्च जुहुयात् स्वशृतं चरुम् । हुत्वा पूर्णाहुतिं दद्यात् शृणुयाद्गीतसत्कथाम् ॥ अर्द्धरात्रे त्रियामे च चतुर्थे च पुनर्यजेत् । मूलमन्त्रं तथा जप्त्वा प्रभाते च क्षमापयेत् ॥ अविघ्नेन व्रतं देव त्वत्प्रसादात् समर्पितम् । क्षमस्व जगतां नाथ त्रैलोक्याधिपते शिव ॥ यन्मयाद्य कृतं पुण्यं तच्छिवस्य निवेदितम् । त्वत्प्रसादान्मया देव व्रतमद्य समर्पितम् ॥ प्रसन्नो भव मे श्रीमन् मद्गृहं प्रतिगम्यताम् । तदालोकनमात्रेण पवित्रोऽस्मि न संशयः । भोजयेद्ध्याननिष्ठांश्च वस्त्रच्छत्रादिकं ददेत् ॥ देवादिदेव भूतेश लोकानुग्रहकारक । यन्मया श्रद्धया दत्तं प्रीयतां तेन मे प्रभुः ॥ इति क्षमाप्य च यतीन् कुर्य्यात् द्वादशवार्षिकम् कीर्त्तिश्रीपुत्त्रराज्यादि प्राप्य शैवं पुरं व्रजेत् ॥ द्वादशस्वपि मासेषु प्रकुर्य्यादिह जागरम् । यतीन् द्वादश संपूज्य दीपदः स्वर्गमाप्नुयात् ॥” इति गारुडे शिवरात्रिव्रतकथा १२४ अध्यायः ॥
