सामग्री पर जाएँ

शिवारुत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शिवारुत¦ न॰

६ त॰। शृगालीशब्दे दिग्भेदे तस्य शुभाशुभ-फलं वसन्तराजशाकुने उक्तं यथा
“शोभनं शुभफलाप्तिसूचकं कथ्यते त्ववितथं शिवारुतम्। शान्तदीप्तककुभां विशेषतो ज्ञानमत्र च सदापयुज्यते। दग्धा दिगुक्ता दिननाथयुक्ता विवस्वताप्ता भवति प्रदीप्ता। सा धूमिता यां सविता प्रयातः शेषा दिगन्ताः फिल पञ्चशान्ताः। दग्धा दिगैशी ज्वलिता दिगैन्द्रो प्रधूमिताचानलदिक्क्रमेण। आद्ये दिनस्य प्रहरे प्रवृत्ते महेश-देवेशहुताशदिक्षु। शिवा रटन्ती कुरुते नराणां संत्रा-सकायव्ययबन्धनानि। अह्नो द्वितीये प्रहरस्य भागेसहस्रनेत्रानलकालदिक्षु। शिवा रटन्ती कुरुते इत्यादि। ब्राह्म्ये तृतीये प्रहरे दिनस्य हुताशवैवस्वतयातुदिक्षु। शिवा रटन्ती कुरुते इत्यादि। समागतेऽह्नः प्रहरेतुरीवे प्रेतेशरक्षःपतिपाशिदिक्षु। शिवा रटन्ती कुरुतेइत्यादि। आद्ये निशायाः प्रहरेप्रवृत्ते रक्षाऽधियादः-पतिवातदिक्षु। शिवा रटन्ती कुरुते इत्यादि। ततोद्वितीयप्रहरे रजन्यास्तोयाधिनाथानिलसोमदिक्षु। शिवारटन्ती कुरुते इत्यादि। यामे{??}तृतीयेऽपि च यामवत्याःसमीरदोषाकरशम्भुदिक्षु। शिवा रटन्ती कुरुते इत्यादि। समागते रात्रितुरीययामे निशाकरेशानसुरेशदिक्षु। शिवा रटन्ती कुरुते इत्यादि। इतीरितं दिक्त्रय-यामयोगात् फलं विरुद्धं विरुतैः शिवायाः। ब्रूमो-ऽथ दिक्पञ्चकयामयोगात् फलानि पुंसां क्रमतः शु-भानि। कृतान्तरक्षोवरुणानिलेन्दुदिक्ष्वाद्ययामे रवितैःशृगाल्याः। स्यादिष्टवार्त्ताश्रुतिरिष्टसिद्धिर्लाभः सु-भिक्षं प्रियलोकसङ्गः। रक्षःप्रचेतोऽनिलसोमशम्भुदिक्षुद्वितीये प्रहरे रुतेन। स्यादिष्टवार्त्ताश्रुतिरित्यादि। जलेशवातेन्दुशिवामरेशदिक्ष्वारवेण प्रहरे तृतीये। स्यादिष्टवार्त्ताश्रुतिरित्यादि। समीरसोमेशसुरेशवह्निदिक्षुस्वरेण प्रहरे चतुर्थे। स्यादिष्टवार्त्ताश्रुतिरित्यादि। शशा-ङ्करुद्रेन्द्रहुताशकालदिक्ष्वारवैः पञ्चमयामभागे। स्यादि-ष्टवार्त्ताश्रुतिरित्यादि। ईशानशक्राग्निकृतान्तरक्षोदिक्षुस्वरेण प्रहरे च षष्ठे। स्यादिष्टवार्त्ताश्रुतिरित्यादि। इन्द्राग्निकालासूपपाशपाणिदिक्ष्वारवैः सप्तमयामकाले। [Page5117-b+ 38] स्यादिष्टवार्त्ताश्रुतिरित्यादि। अत्यन्तकृन्नैरृतषाशिवात-दिक्ष्वष्टमे च प्रहरे रवेण। स्यादिष्टवार्त्ताश्रुतिरित्यादि।
“एकादिकानां निधनाष्टमानां शिवारुतानामधुना यद-र्थम्। प्राच्यादिकास्वष्टसु दिक्ष्वशेषं यद्यत् फलंतत्तदुदीरयामः। धनान्यभीष्टाप्तिमभीष्टलाभं ध्रुवंततोऽर्थस्य फलं{??}ञ्च। भयं प्रलापं सकलञ्च सो-ख्यमेकादिशब्दैः कुरुते प्रशान्ते। भयान्यनिष्टश्रुति-रर्थहानिरिष्टैर्वियोगो महती च भीतिः। स्याद्वि-ग्रहाप्तिर्मरणञ्च दीप्ते त्वेकादिना चेत् कृतसप्तकेन। ऐश्यां निनादे प्रथमेऽर्थलाभो भवेद्द्वितीये निधिदर्शनञ्च। कन्यां तृतीये लभते चतुर्थे त्वध्वागमं पञ्चमकेऽथ सि-द्धिम्। षष्ठे रवे कुप्यति भूमिनाथा भोः सप्तमे स्याद्विफ-लोऽष्टयस्तु। त्रासोऽग्निभागे प्रथमे द्वितीये नराधिपःकुप्यति भीस्तृतीये। घातश्चतुर्थे नगरस्य शब्दे शिवा-कृते पञ्चमके च युद्धम्। वदन्ति तज्ज्ञाः कलहश्च षष्ठेभीः सप्तमे स्याद्विफलोऽष्टमस्तु। आद्ये शुभ स्यादशुभद्वितीये याम्ये महाव्याधिभयं तृतीये। स्वरे चतुर्थे स्व-जनागमः स्यात् पुत्रा भवेत् पञ्चसु फेत्कृतेषु। जायेतकन्या रटिते च षष्ठे भीः सप्तमे स्याद्विफलोऽष्टमस्तु। ग्रामस्य घातो दिशि राक्षसानामाद्ये द्वितीयेऽपि चगोकुलस्य। मृत्युस्तृतीये द्विचतुष्पदानां हानिश्चतुर्थे-ऽपि च पञ्चमेऽत्र। चौराद्भयं राजभयञ्च षष्ठे भीःसप्तमे स्याद्विफलोऽष्टमस्तु। शब्दे शिवाया वरुणस्य भागेआद्ये भयं हानिरथ द्वितीये। स्याद्राजदूतागमनं तृतीयेवादश्चतुर्थे खलु चौरभीतिः। स्यात् पञ्चमे राजभयञ्चषष्ठे भीः सप्तमे स्याद्विफलोऽष्टमस्तु। वायव्यभागे भय-मेकशब्दे भयातिरेको भवति द्वितीये। वृष्टिस्तृतीयेभहती चतुर्थे मेधागमे वर्षति पञ्चमे च। क्रोधं वि-घत्ते नृपतेश्च षष्ठे भीः सप्तमे स्याद्विफलोऽष्टमस्तु। दिश्युत्तरस्यां बिहिते विरावे म्रियेत कश्चित् प्रथमे द्वि-तीये। महाभयं, विप्रबधस्तृतीये क्षत्रं चतुर्थे खलुहन्यते च। विट् पञ्चमे षष्ठरवे च शूद्रा भीः सप्तमे स्या-द्विफलोऽष्टमस्तु। राहोस्तथा दर्शनमाद्यशब्दे केतो-र्द्वितीये च तथोत्तरेण। उल्कापपातस्त्रिषु दुर्दिनञ्चचतुर्षु भद्रं खलु पञ्चमे च। सङ्गो भवेद्वैरिजनैश्चषष्ठे भोः सप्तमे स्याद्विफलोऽष्टमस्तु। आद्ये भवेद्दुर्दि-नमोशदेशे वृष्टिर्द्वितीये च रवे शिवायाः। वातस्तृतीयेत्वशनिश्चतुर्थे म्रियेत कश्चित् खलु पञ्चमे च। लभेत[Page5118-a+ 38] पृथ्वीं निनदे च षष्ठे भीः सप्तमे स्याद्विफलोऽष्टमस्तु”
“क्षेमलाभपुनरागमनानां निश्चयं यमधिगम्य विशङ्कः। येन याति पथिकः परदेश तं शिवारुतमथ प्रथयामः। यंयं देशं गन्तुमभ्युद्यतानां पुंसां शब्दानुच्चरन्ती शृगाली। शान्तायां सा सिद्धये वाञ्छितानां दीप्तायान्तु स्यादभी-ष्टक्षयाय। प्राचीं दिशं सम्मुखभानुविम्बं प्रतिष्ठमानस्यनरस्य यस्य। शब्दं सृगाली पुरतः करोति बन्धं बधंवा प्रकरोति तस्य। प्राचीदिगीशाभिमुखस्य पुंसःव्रस्थानकामस्य शिवा सशब्दा। भियेऽर्थनाशाथ च दक्षिणा स्याद्वामा पुनर्वाञ्छितकार्य्यसिद्ध्यै। प्रत्यर्कमाशांचलितस्य पूर्वां शिवा विरावं पुरुषस्य यस्य। करोतिपृष्ठे प्रकरोति तस्य सर्वप्रकारामभिलाषसिद्धिम्। प्रस्था-यिनो यस्य च दक्षिणाशां शिवा रतं मुञ्चति दक्षिणेन। आदित्यमुक्ता यदि नो तदानीं ध्रुवं भवेत्तस्य महीपति-त्वम्। वैवस्वताशाचलितस्य यस्य दिवाकरस्तिष्ठतिदक्षिणेन। शिवा च वामा कुरुते विरावं सम्पद्यते तस्यसमस्तमिष्टम्। पुमान् यदा याम्यककुप्प्रवासी क-रोति शब्दं पुरतः शृगाली। आस्ते विवस्नानपिसम्भुखश्चेत् भवेत् तदानीमचिरेण मृत्युः। नरस्ययाम्यां ककुभं यियासोः शृगालभार्य्या यदि पृष्ठभामे। फेत्कारमामुञ्चति मानवस्य मृत्युश्च पुत्रेण भवत्यवश्यम्। दिशं प्रतीचीं व्रजतः शृगाली नरस्य यस्याभिमुखीविरौति। शान्तास्थिता शान्तफलादात्री दीप्तास्थिता दीप्त-फलं तनोति। प्राचेतसीं सञ्चलितस्य काष्ठां शृगालिकाजल्पति दक्षिणेन। यदा वदानीं सुबहूननर्थान् करोतिचार्थानपि हन्ति पुंसः। दिशं प्रचेतःपरिपाल्यमानांनरस्य यस्य व्रजतः शृगाली। वामा विरार्व प्रकरोतिशान्ता भवन्त्यभिप्रेतफलानि तस्य। यो वारुणीं यातिदिशं भनुष्यः शृण्वन् शिवायारटितानि पृष्ठे। गतस्यतस्याशु हृताशभीतिरसंशयं स्यात् द्रविणक्षयश्च। यस्यो-त्तराशां चलितस्य पुंसः प्राच्यां शिवा मुञ्चति फेत्कृतानि। भानुः प्रतीच्यां विहितस्थितिश्चेदपेक्षितं सिध्यति तत्-क्षणेन। मुञ्चत्युदीचीं चलितस्य पृष्ठे शिवा विरावंपुरुषस्य यस्य। आस्ते च मध्ये नभसो विवस्वांस्तस्यार्थ-हानिर्मरणं प्रदिष्टम्। कुवेरकाष्ठां प्रति यः प्रयातिज्वालामुखी चाभिमुखी विरौति। तस्याध्वगस्याभि-मत्यर्थसिद्धिर्भवेच्च सम्पत् पुनरागमश्च। तिष्ठति तीव्रकरो-दिशि यस्यां फेत् कुरुते यदि तत्र शृगाली। तद् व्रजतः[Page5118-b+ 38] पथिकस्य भवेतां निश्चयतो धनजीवितनाशौ। दक्षिणतःप्रथमं यदि पश्चात् वामगता पथिकस्य शृगाली। फेत्कुरुते कुरुते तदवश्यं क्षेमधनाप्तिगृहागमनानि। अ-थास्य शान्तां ककुभं नरस्य वामा शृगाली यदि वारटन्ती। तदार्थलाभं वितरत्यवश्यमर्थक्षयं दक्षिणतीरटन्ती। वामा प्रदीप्ते ककुभः प्रदेशेऽलाभं तथानर्थमुपा-दिशन्ति। शिवा रटन्ती पथि दक्षिणा तु क्षिपत्यनर्थानथ-सङ्कटेषु। शान्ते दिगन्ते यदि वा प्रदीप्ते पृष्ठे प्रयाणेप्रतिषेधयित्री। शब्दायमाना तु शिवा पुरस्तात् निम-ज्जयत्यापदगाधसिन्धौ। वामेऽपसव्ये पुरतोऽथ पृष्ठेपुंसः शिवा जल्पति यत्र तत्र। आयान्ति चौराः प्रथमेविरावे द्वयोर्भवेत्तस्करदर्शनञ्च। नृपादरोऽर्थागमनं तृतीयेतुर्य्ये क्षतिः पञ्चमकेऽर्थलाभः। वाणिज्यसेवादिफलायषष्ठे भीः सप्तमे स्याद्विफलोऽष्टमस्तु। हाहारवं मुञ्चतिहृष्टभावा हास्यं तु तस्यास्तदुदाहरन्ति। अग्रेसरा वापथि या यियासोः सा द्बिप्रकाराषि मनोरथाप्त्यै। नृपस्य यात्रासमये पुरस्तात् प्रायाति चेद्वर्त्मनि वेदयन्ती। कुर्य्याच्छिवा वैरिपराभवं तज्जयश्रियञ्चाभिमतं विद-ध्यात्। कार्य्यान्तरेष्वप्यनुगम्यमाना श्रेयःप्रदा शान्त-दिशि प्रदिष्टा। शिवा प्रदीप्ते तु दिशि प्रदेशे समारटन्तीमहते भयाय। भवोद्गमे दीप्तदिशि प्रदीप्तैर्नादैर्नृणांहन्ति भयानि देवी। महान्ति सर्वाण्यपि, शान्तनादाशान्तस्थिता सर्वभयप्रदात्री। यदा च नद्युत्तरगा नराणांशब्दं शृनाली कुरुते कदाचित्। तटद्वये तत्परिरक्षणीयंमहद्भथं भावि जलेचरेभ्यः”।
“स्थानस्पितानामपि योग-भाजां नैमित्तिकानासुपदिश्यते तु। शिवाविरावैरशिवंशिवञ्च सुनिश्चितार्थं मुनिसम्मतेन। करोति फे फे इतिसर्वदिक्षु यदा तदा स्थानविघातयुद्धे। शिवो विधत्तेक्षुधिता त्वसंख्यान् रौद्रान् स्वरान् मुञ्चति चेदुपेक्षाम्। निरन्तरं रौति विदिक्षुदिक्षु समन्दकारुण्यवरातुरा चेत्। अपत्यमोहेन यदा शृगाली त्यक्तस्पृहा सा कथितेहतज्ज्ञैः। स्थित्वा प्रदीप्ते ककुभो विभागे ज्वालामुखीफेत्कुरुतेऽतिरौद्रम्। ग्रामस्य तस्य प्रकरोति नाशंतस्याथ वा तिष्ठति यस्य मध्ये। ग्रामस्य मध्यं समवाप्ययस्य ज्वालामुखी मुञ्चति फेत्कृतानि। स शून्यतांगच्छति निश्चयेन लोकस्य वा स्यादसुखं प्रभूतम्। ग्रामा-न्तिके सप्तदिनानि यावत् महाभयोत्पादितफेत्कृतानि। विरौति चेत्तत् कुरुते शृगालो तद्वासिलोकस्य भयं[Page5119-a+ 38] प्रभूतम्। मध्यंदिने यावदहानि पञ्च शिवा समीपेनगरस्य यस्य। विरौति घातं विदधाति तस्य भयञ्चबह्निप्रभवं प्रभूतम्। पञ्चार्द्धरात्राणि कथञ्चिदेषा क्रूरा-रवा व्याहरते शृगाली। यस्यान्तिके तं बहवो हठेनमुष्णन्ति चौरा जनसन्निवेशे। स्थानस्य यस्योपगतासमीपं दिनानि पञ्चोच्चरति प्रभाते। स्वरेण रौद्रेण शृ-गालभार्य्या स्यात्तत्र हानिर्महती नराणाम्। सुरक्षित-स्यापि मनुष्यलक्षैर्ग्रामस्य शीघ्रं हरणं विधत्ते। त्रयंदिबानां दिवसावसाने शिवारटन्ती परुषस्वरेण। दिक्ष्वा-रटन्ती सकलासु रौद्रं भ्रमत्यखिन्ना परितः पुरश्चेत्। शृगालभार्य्या खलु तद्ब्रवीति युद्धं महत्तत्र महाभि-घातम्। ज्वालां विमुञ्चत्यतिरौद्रनादा समाकुलाधावति या समन्तात्। कौमारक था जनयत्यकस्मात्कुर्य्याच्छिवा सा युवराजपातम्। रोमोद्गमं या जनयत्य-कस्मात् फेइत्यतिक्रूररवा नराणाम्। मूत्रं पुरी-षन्तु तुरङ्गमाणां सा सर्वदा स्यादशिवा शिवेह। तरङ्गिणोरोधसि सौम्यरूपांस्त्रीन् पञ्च वा मुञ्चतिया निनादान्। शिवां शिवां तां नृपतित्वदात्रींवन्देत देवीमभिवन्दनीयाम्। श्मशानभूमौ दिनमध्यभागेमध्ये रजन्याः स्वगृहप्रदेशे। सा रौति तस्यै बलिमर्घ्य-युक्तं भक्त्या प्रदद्याद् यदि भष्ट्रमिच्छेत्। सर्वेषु कार्येषुसमुद्यतेषु बलिः शिवाया विमियेदनीयः। गृह्णातियस्मिन् विषयेऽभ्युपेत्य देवी बलिं जल्पति तत्र सिद्धिम्”
“कथ्यते बलिविधानमिदानीं शाकुनागममतेन शिवायाः। दिव्यमन्त्रबलिबाधितदोषं साधिताखिलसमुद्यतकार्यम्। शून्यालयं रुद्रगृहं श्मशानं चतुष्पथं मातृगृहंजलान्तम्। बन्ध्यावनिश्चत्वरमेवमाद्या वलिप्रदानायमताः प्रदेशाः। तेषाञ्च मध्यादुचितप्रदेशे विशो-धितं मण्डलिकं विदध्यात्। पौराणिकश्लोकपरी-क्षितायाः सगृह्य गोर्गोमयमन्तरीक्षात्। अत्यन्तजीर्ण-देहाया बन्ध्यायाश्च विशेषतः। रोगार्त्तनवसूताया नगोर्गोमयमाहरेत्। तस्मिन् विचित्रं विततं विदध्यात्पिष्टाक्तकेनाष्टदलं सरोजम्। संपूजयेत् तत्र सुराधि-पादीन् क्रमेण सर्वानपि लोकपालान्। मध्ये सुतैःपञ्चभिरभ्युपेता शिवान्विता पिष्टमयी प्रसन्ना। पूज्याशिवा तुष्यति भक्तियोगात् प्रभूतपुष्पाक्षतधूपदीपैः। साज्यगुडौदनमाषकुलत्थं र्यावकपूपलिकामिषमद्यैः। संभृ-तिरत्र नराशनमात्रं बुद्धिमता बलिकर्मणि कार्य्या। [Page5119-b+ 38] प्राप्याष्टमीं वामचतुर्दशीं वा संमन्त्र्य मन्त्रेण च सप्तकृत्वः। बलिं शिवाया निशि निश्चयेन दद्यान्मनुष्योयदि भद्रमिच्छेत्”।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शिवारुत/ शिवा--रुत n. the howling of a jackal L.

"https://sa.wiktionary.org/w/index.php?title=शिवारुत&oldid=332709" इत्यस्माद् प्रतिप्राप्तम्